________________ 2 परिच्छेदः।] सरखतीकण्ठाभरणम् / 256 ::खिनो यथा-......... .. .. . 'कुलजातिसमाकुलीकृतानां सुखदसुखाशयमूढचेतनानाम् / ..... अभवविभवलाभलोलुभानां भव भवबन्धविभेदनाय भूयः // 221 // " अत्र रीतेरनिर्वाहात्खिन्नता / सोऽयं पदानुप्रासः खिन्न इत्युच्यते // कुलेति / अत्र प्रथमपादे कुलेति अविवक्षितखरादिवर्णयुग्ममक्षरचतुष्टयव्यवधानेन कुलीत्यावृत्तम् / द्वितीयतृतीयपादयोस्तु सुखदसुखेति अभवविभवेति चैकवर्णव्यवधानेनावृत्तिः / चतुर्थपादे तु. भवभवेति, रीतिभङ्गो न च दोषः / प्रतीत्यव्यवधानात् // .... . स्तबकवान्यथा , 'भासयत्यपि भाषादौ कविवर्गे जगत्रयीम् / - के न यान्ति निबन्धारः कालिदासस्य दासताम् // 222 // सोऽयं वर्णानुप्रासवत्पदानुप्रासोऽपि स्थाने स्थाने विनिवेशास्तबकवानित्युच्यते // वैचित्रीविशेषेणालंकारभावो भासयतीत्यादावाद्यन्तयोर्दूरान्तरितैवावृत्तिः / स्थाननियमस्तु न विवक्षितः / तदिदमुक्तम्-स्थाने स्थान इति // . स्थानी यथा- .. , 'परं जोण्हा उण्हा गरलसरिसो चन्दणरसो खदक्खारो हारो मलअपवणा देहतवणा / . मुणाली वाणाली जलदि अ जलद्दा तणुलदा वरिट्ठा जं दिट्ठा कमलणअणा सा सुवअणा // 223 // [परं ज्योत्स्ना उष्णा गरलसदृशश्चन्दनरसः .. क्षतक्षारो हारो मलयपवना देहतपनाः / :: मृणाली बाणाली ज्वलति च जलार्दा तनुलता : - वरिष्ठा यदृष्टा कमलनयना सो सुवदना // ] सोऽयं पदानुप्रासः स्थाननियमात्स्थानीत्युच्यते //