________________ 250 .काव्यमाला / स नैषधेत्यादौ निषधरूपो वर्णसमुदायः पदैकदेशतामापन्नः साधारण एव / तदत्र दन्तुरता कीदृशीत्यत आह–अत्र निषिद्धति / श्लक्ष्णो यथा_ 'अप्येहि कान्ते वैदेहि देहि प्रतिवचो मम / अरविन्दाक्षि दाक्षिण्यमलंकारो हि योषिताम् // 218 // अत्र 'खरेण सहावृत्तेः श्लक्ष्णता / सोऽयं पदानुप्रासः श्लक्ष्ण इत्युच्यते // .. संपुटं यथा'सदर्प इव कंदर्पस्तरला मादृशां मतिः / असार इव संसारः कुरुष्व मदनुग्रहम् // 219 // अत्रेवशब्दस्यापवादत्वेनाव्यवधायकत्वादनुप्रासोऽयं संपुट इत्युच्यते॥ संपुटवदेकरूपस्यैव खण्डस्य निरन्तरमावर्तनं संपुटम् / तत्कथमिव कंसंशब्दरन्तराये संपद्यत इत्यत आह-अत्रेवशब्दस्येति॥ संपुटावली यथा'करोति किं किरातोऽयं समाकृष्य शिलीमुखान् / शिलीमुखान्समाकृष्य किङ्किरातः करोति यत् // 220 // - अत्र करोति करोतीत्येकं संपुटम्, किं किरातः किङ्किरात इति द्वितीयम्, समाकृष्य समाकृष्येति तृतीयम्, शिलीमुखाञ्छिलीमुखानिति चतुर्थम् / सोऽयं पदानुप्रासः संपुटावलीत्युच्यते // : करोति किं किरातोऽयमित्यादौ मध्ये शिलीमुखाञ्छिलीमुखानिति प्रथमं संपुटम् / तस्य बहिरावरणभूतं समाकृष्य समाकृष्येति द्वितीयम् / तस्यापि किं किरातः किङ्किरात इति तृतीयम् / तस्यापि करोतीति चतुर्थम् / तदेतद्विपरीतव्याख्यया व्यञ्जयन्नाह–अत्र करोतीत्यादि // ................. ."