________________ 2 परिच्छेदः / सरखतीकण्ठामरणम् / समग्रमसमग्रं वा यसिमावर्तते पदम् / पदाश्रयेण स प्रायः पदानुप्रास उच्यते // 93 // समग्रमिति। पदालम्बनोऽनुप्रासः पदानुप्रासस्तेन पदावयवमालालम्बनोऽपि पदालम्बन एव / तदिदमाह-पदाश्रयेणेति // विसर्गविन्दुसंयोगवरस्थानाविवक्षया / अनिर्वाहाच स प्रायो यमकेभ्यो विभिद्यते // 94 // ममृणो दन्तुरः श्लक्ष्णः संपुटं संपुटावली / खिन्नः स्तबकवान्स्थानी मिथुनं मिथुनावली // 95 // गृहीतमुक्तनामान्यस्ततोऽन्यः पुनरुक्तिमान् / इति द्वादशभेदोऽयं मनीषिभिरिहेष्यते // 96 // ननु यदि पदावृत्तिरमिन्नार्था तदा पुनरुक्तिरेव, भिन्नार्था चेद्यमकान भिद्यत इत्यत आह-विसर्गेति / बिन्दुरनुखारः / स्थानं कण्ठादिकम् / वृत्तः पादादियमकताभावो निर्वाहः प्रायोनिर्वाह इति योजना // तेषु मसृणो यथा-. 'सरणे वारणास्यस्य दशनेऽशनिसंनिभे / चकार वलयाकारं भुजं भुजगभीषणम् // 216 // सोऽयमसंयुक्तवर्णावृत्तेः पदानुप्रासो मसूण इत्युच्यते // वारणास्यो विनायकः। अत्र रणेरणेति शनेशनीति कारफारमिति भुजंभुजेति पदं तदेकदेशावृत्तिः स्फुटमुपलभ्यते। मसृणस्तु कथमित्यत आह-सोऽयमिति॥ दुन्तुरो यथा'स नैषधस्याधिपतेः सुतायामुत्पादयामास निषिद्धशत्रुः / अनूनसारं निषधानरेन्द्रात्पुत्रं यमाहुर्निषधाख्यमेव // 217 // अत्र निषिद्धशत्रुरिति पदे संयोगाधिक्येन दन्तुरता / सोऽयं पदा. नुप्रासो दन्तुर इत्युच्यते //