________________ 2 परिच्छेदः / सरखतीकण्ठाभरणम् / 215 / आवाक्यपरिसमाप्तेर्वर्णानुप्रासनिर्वाहो वेणिका यथा 'विद्राणे रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवत्रे ___जाताशङ्के. शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे / - वैकुण्ठे कुण्ठितास्त्रे महिषमतिरुषं पौरुषोपघ्ननिघ्नं ___ निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी // 211 // - तदेतन्नातिदुर्बोधम् / सोऽयं वर्णानुप्रासो वेणिकेत्युच्यते // विद्राण इति / उपघ्न आश्रयः / निघ्नः परवशः। अनुप्रासजातेरासमाप्ति निर्वाहोऽभिमतः / व्यक्तयः पुनरन्या अन्या एवाभिमतास्तेन, वृत्त्यनुप्रासाद्भेदः। अत एव वेणीतुल्यता / तत्र हि किल केशग्रथना नियूंढेव भक्तिः पुनरन्यान्येति // उक्तलक्षणेभ्योऽन्यश्चित्रो यथा.. 'नीते निर्व्याजदीर्घा मघवति मघवद्वज्रनिद्रानिदाने... निद्रा द्रागेव देवद्विषि मुषितरुषः संस्मरन्त्याः स्वभावम् / . देव्या दृग्भ्यस्तिसृभ्यस्त्रय इव गलिता राशयो रक्तताया ...... रक्षन्तु त्वां त्रिशूलक्षतिकुहरभुवो लोहिताम्भःसमुद्राः // 212 // ' एवमन्येऽपि द्रष्टव्याः // उक्तलक्षणेभ्य इति / पूर्वोक्तवर्णानुप्रासेभ्य इति / तथाहि प्रकृतोदाहरणे स्थाने स्थाने स्तवकाविवक्षायां न स्तबकवान्, * विभागपरिहारेण न स्थानी, वर्णान्तरायानुपपत्तौ न गर्भः, संकोचविकासाभावेन न विवृतसंवृतः, चक्रवालक्रमाभावेन न गृहीतमुक्तः / एवं क्रमविपर्यस्तमिथुनबहिर्भावोऽवगन्तव्यः / आसमाप्तिनिर्वहणाभावे वेणीभेदः स्फुट एव // एकवर्णावृत्तवृत्त्यनुप्रासस्य वर्णान्तरवैचित्र्येण विचित्रो यथा'चञ्चत्काञ्चनकाञ्चयो लयवलच्चोलाञ्चलैर्वञ्चिता.... श्वारीसंचरणैकचारुचरणाः सिञ्चन्ति चित्तं मम / लीलाचञ्चुरचञ्चरीकरुचिभिश्चूलालकैश्चर्चिताः . . किंचिच्चन्दनचन्द्रचम्पकरुचां चौर्यो मृगीलोचनाः // 213 //