________________ 246 - काव्यमाला। द्विगुणो राग इति उपमांने मत्तपदपोषः पूर्वार्धं द्वयोर्द्वयोरुत्तरार्धे त्रयाणामनुल्लजितक्रमाणामेव व्यञ्जनानामावृत्तिरिति स्फुटं विवरणम् // . क्रमवतां विपर्ययोफ्न्यासाद्विपर्ययो यथा-- 'प्रणवः प्रवणे यत्र प्रथमः प्रमथेषु यः / रणवान्वारणमुखः स वः पातु विनायकः // 208 // अत्र व्युत्क्रमो व्यक्त एव। सोऽयं वर्णानुप्रासो विपर्यय इत्युच्यते / / क्रमवतामुपक्रान्तकिंचित्क्रमाणामावृत्तौ तत्क्रमविपर्यासो व्युत्क्रमः // खाद्यवर्णवर्तिना खरेण सह पादमध्यान्तयोरनुप्रासः संपुटं यथा'स्थिरापायः कायः प्रणयिषु सुखं स्थैर्यविमुखं * महारोगाभोगः कुवलयदृशः सर्पसदृशः / गृहावेशः क्लेशः प्रकृतिचपला श्रीरपि खला. यमः खैरी वैरी तदपि न हितं कर्म विहितम् // 209 // तदेतल्लक्षणेनैव व्याख्यातम् / सोऽयं वर्णानुप्रासः संपुट इत्युच्यते // खायेति / आवर्तनीयो वर्णः खपदेनाभिमतस्तस्य पूर्वो यो वर्णस्तद्वर्तिना खरेण सह तस्यावृत्तिः / पादमध्यान्तयोरिति / मध्यसंश्लिष्ठोपरितनभागघटितसमुद्रकतुल्यतया संपुटोऽनुप्रासः // .. अन्तपादमुपसंहारोपक्रमयोर्विवक्षितः सखरानुप्रासो मिथुनं यथा'त्यज मनसि सदाहे हे स्मर स्थानमस्मि ननु किरसि शरीरे रे किमिन्दो मयूखान् / - अपि परिहर वायो योगमङ्गैर्मदीयैः / प्रणयिनि समवेते ते भवन्तः सखायः // 210 // " 'तदेतन्निगदेनैव व्याख्यातम् / सोऽयं वर्णानुप्रासो मिथुनमित्युच्यते / .. अन्तपादमिति / वृत्तौचितीवशाच्च द्विखण्डलब्धशोभाविशेषेषु . पादेषु मिथुनसिद्धिरबसेया / तदिदमुक्तमुपक्रमोपसंहारयोरिति / मिथुनं द्वन्द्वम् // .