________________ 2 परिच्छेदः। सरस्वतीकण्ठामरणम् / 215 न मालतीदामेत्यादौ प्रथमपादे मकारावृत्तियेन विवरणम् , द्वितीयपादे सकृत्प्रयोगेण तस्यैव संवृतिः, तृतीयपादे नकारसकारयोरावृत्त्या विकृतिः, चतुर्थे नेति संवरणम् / तदिह भूयोविकास-किंचित्संकोच-किंचिद्विकास-सर्वथासंकोचपरिपाच्या संदर्भनिर्वहणं शोभाकरमिति व्याचष्टे-अत्रेति // चकवालवद्धानोपादानाभ्यां गृहीतमुक्तो यथा'लोलल्लवङ्गलवलीवलया निकुञ्ज कूजत्कपिञ्जलकुला मुकुलावनद्धाः। अध्यूपिरे कनकचम्पकराजिकान्ता येनापरान्तविजये जलधेरुपान्तः // 206 // ' अत्र चक्रवालक्रमः सुव्यक्त एव / सोऽयं वर्णानुप्रासो गृहीतमुक्त इत्युच्यते // लोलदिति / कपिजलो गौरसित्तिरिः / अपरान्तो देशविशेषः / पूर्ववलनेनोत्तरग्रहणं चक्रवालं व्यजनमात्रवलनमामिप्रेतम् , तेन वली वलेल्यत्रापि चक्रबालसिद्धिः / एवमुत्तरत्र / क्रमेण द्वित्राणां त्रिचतुराणां वर्णानामसंयोगखरवर्णानामावृत्तिः क्रमबान्यथा- .. 'नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेव तेन / चकार सा मत्तचकोरनेत्रा लज्जावती लाजविमोकममौ / / 207 // ' अत्र गुर्वी गुरुणा प्रयुक्तेति, वधूर्विधातृ इति, चकार चकोरेति, लज्जावती लाजविमोकमिति द्वयोस्त्रयाणां च खरसंयोगवर्णानां क्रमेणावृत्तिः, सोऽयं वर्णानुमासः क्रमवानित्युच्यते // क्रमेणेति / द्वावारभ्यैव क्रमसंभव ऊर्ध्व चतुर्यो विरसायते / तेन पञ्चषाणामित्यादिनोतमसंयोगखराणामित्यविवक्षितसंयोगखराणाम् / गुरुणेत्यनुल्लहनीयाज्ञता। तथा चलत्प्रयुक्त्या दुर्वहनितम्बभारालसाया अपि कथंचित्पदविन्यासेन कान्तिविशेषो धम्यते / खभावनामयोरपि नेत्रयोतकाले धूमाश्लेषाद