________________ 244 काव्यमाला। . नियतविवक्षितस्थानविशेषः स्थानी यथा'बाले मालेयमुच्चैर्न भवति गगनव्यापिनी नीरदानां किं त्वं पक्ष्मान्तरालैर्मलिनयसि सुधावक्रमथुप्रवाहैः / एषा प्रोद्वृत्तमत्तद्विपकटकषणक्षुण्णविन्ध्योपलाभा दावामेव्योमलमा मलिनयति दिशां मण्डलं धूमरेखा // 203 // ' अत्र प्रथमत्रिभागस्थानेषु बाले मालेयमित्यादिनियमेन वृत्तिः / सोऽयं वर्णानुप्रासः स्थानीत्युच्यते // . स्थानीति / श्लोकपादेऽपि प्रथमादिभागकल्पनया स्थाननियमविवक्षा / तथाहि-बालेमालेयमिति / प्रथमो भागो नीनी इति प्रतिभासारूढस्तृतीयादि प्रथमपादे। एवं पक्ष्मान्तरालमलिनसुधाश्रुप्रभृतीनां द्वितीयादिपादेषु प्रथमादिभागकल्पनावसेया // आवृत्तेर्वर्णान्तरायेण गर्भो यथा'कालं कपालमालाङ्कमेकमन्धकसूदनम् / वन्दे वरदमीशानं शासनं पुष्पधन्वनः // 204 // ' अत्र कालं कपालमालेति, अङ्कमेकमिति, वन्दे वरदमीशानं शासनमित्यादिषु पकाररेफककारगर्भाधानादयं वर्णानुप्रासो गर्भ इत्युच्यते // कालं कालस्वरूपम् / एकमद्वितीयम् / कालं कपालेल्यत्र लकारावत्तिः ककारेण व्यवधाने प्रकृते कपालेऽन्यत्र पकारो वर्णान्तरगर्भायमाण उपलक्ष्यते / एवं मालाङ्कमित्यादी लकारादिगर्भीकरणमवसेयम् / विवृतसंवृतौ निगदेनैव व्याख्यातौ // स्थाने स्थाने विकाससंकोचाभ्यां विवृतसंवृतो यथा'न मालतीदाम विमर्दयोग्यं न प्रेम नव्यं सहतेऽपराधान् / म्लानापि न म्लायति केसरसग्देवी न खण्डप्रणया कथंचित् // 205 // ' अत्र प्रथमपादे न मालतीदामेत्यादिभिर्विकासः, द्वितीयपादे प्रेमेत्याकारावृत्त्या संकोचः, तृतीयपादे म्लानापि न म्लायतीत्येताभ्यां च विकासः, चतुर्थे नेति संकोचः। सोऽयं वर्णानुप्रासो विवृतसंवृत इत्युच्यते॥