________________ 2 परिच्छेदः। सरखतीकण्ठाभरणंम् / श्रुत्यनुप्रासवर्णानुप्रासयोरपि दुष्कराः / ... कचिद्भेदाः पृथकर्तुमस्यास्तेनेह नेष्यते / / 8 / / श्रुत्यनुप्रासवर्णानुप्रासयोरिति / विषयसप्तमी / वर्णावृत्तवृत्त्यनुप्राससाधारणत्वात् // यथाम्रातकपुष्पादिस्रगादेर्वर्ण उच्यते / वर्णावृत्तिस्तथा वाचां वर्णानुप्रास उच्यते // 89 // ततो वर्णानुप्रासं विशेषयन्नाह-यथाम्रातकेति / स्रगादेर्वर्णस्थानीया वर्णावृत्तिवर्णानुप्रासः / तत्रोपमानभूतवर्णविवरणं समानजातीयकुसुमादिविरचितमालापटप्रभृतिषु यदन्तरान्तरा विजातीयाम्रातककुसुमादिसंनिवेशनं तद्वर्ण इत्युच्यते। तद्वत्या वाचा वर्णावृत्तिः / सैव वर्णानुप्रास इति सूत्रार्थः / स द्विधा- संयुक्तासंयुक्तवर्णनिरूप्यत्वात् / यथायथमेतदुभयप्रपञ्चनम् // स तु स्तबकवास्थानी गर्भो विवृतसंवृतः / गृहीतमुक्तः क्रमवान्विपर्यस्तोऽथ संपुटः // 9 // स्तबकर्वदादयो द्वादश प्रकारास्तषु क्वचित्त्वचित्संयोगावृत्तिः, तंबकवान् / अनुप्रासविन्यासादिति संयोगानुप्रासविन्यासतः // .. .... मिथुनं वेणिका चित्रो विचित्रश्चेति वर्ण्यते / वर्णावृत्तिप्रयोगेभ्यस्तेभ्यस्तेभ्यो मनीषिभिः // 91 // तेषु स्थाने स्थानेऽनुप्रासविन्यासतः स्तबकवान्यथा- 'यस्यावासीकृतहिमगिरेगुञ्जतां कुञ्जराणा माविश्चक्रे वनगजमदाघ्राणघोरायितानि / . * दर्पोत्फुल्लस्फुरणविकटाकाण्डकण्डूलगण्ड- . खेच्छाकाषव्रणितसरलानोकहस्कन्धगन्धः // 202 / ' : अत्र. गुञ्जतां कुञ्जराणामित्यादेवर्णस्तबकस्य स्थाने स्थाने विन्यासादयं वर्णानुप्रासस्तबकवानित्युच्यते // .. गुंजतां कुञ्जराणासकाण्डकण्डूलगण्डस्कन्धगन्ध इत्यत्रावृत्तिचतुष्केण स्तबकनिर्वाहः॥