________________ 241 काव्यमाला / मिश्रा यथा"पिनष्टीव तरङ्गारुदधिः फेनचन्दनम् / तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः // 198 // सैषा प्रायः कठोराणामोष्ठयकण्ठ्यमूर्धन्यानां बाहुल्यादिभिरुपलभ्यते॥ बाहुल्यादिभिरिति / बाहुल्याल्पत्वमिश्रणैः प्रादेशिकैरित्यर्थः // परुषा यथा'जहे निहादिहादोऽसौ कलाराहादितहृदः। प्रसह्य मह्या गीत्वमर्हणाहः शरन्मरुत् / / 199 // सैषा प्रायेणोप्मणामन्तःस्थादिसंयोगैरवस्थाप्यते // ललिता यथा.. 'द्राविडीनां ध्रुवं लीलारेचितभ्रूलते मुखे / आसज्य राज्यभारं खं सुखं स्वपिति मन्मथः // 200 // सैषा प्रायेण दन्त्यौष्ठ्यतालव्यानां मध्येऽन्तःस्थादिसंयोगैः स्थाप्यते। द्राविडीनामिति / किंचिदुन्नमनं रेचितम् / तेनाधिज्यकोदण्डक्रियाकारिभ्रूलतासनाथे दुःखराज्यभारारोपः / सुगममुदाहरणम् // ... अमिता यथा'बकुलकलिकाललामनि कलकण्ठीकलकलाकुले काले। . . कलया कलावतोऽपि हि कलयति कलितास्त्रतां मदनः // 201 // ' सेयममितयोरेव ककारलकारबन्धयोरनुप्रासेन प्रसूयते // . इति द्वादशधा वृत्तिः कैश्चिद्या कथितेह सा। ., न गुणेभ्यो न वृत्तिभ्यः पृथक्त्वेनावभासते / / 87 // तदेतत्सर्वेषां मतं दूषयति-न गुणेभ्य इति / समतासौकुमार्यादिगुणेषु भारतीप्रभृतिषु च वृत्तिषु यथायथमन्तर्भावोऽवगन्तव्यः //