________________ 240 काव्यमाला। दूषणप्रतिपत्तिसौकर्यात्तत्प्रसिद्ध्यैव पृथगुदाहियत इत्याह-तास्विति / अप्फुन्दन्तेण व्याप्तवता / उद्धमाइअं व्याप्तम् / दुन्दुभिरन्तर्गतकांस्यभाजनो निःखानविशेषः / दुण्डहिअं शब्दायितम् / दकारधकारौ तवर्गस्य बकारभकारौ पवर्गस्य तृतीयचतुर्थौ // ओजस्विनी यथा'पत्ता अ सीमराहअधाउशिलाअलणिसण्णराइअजलअम् / सकं ओज्जुरपहसिददरिमुहणिम्महिअवउलमइरामोदम् // 191 // ' [प्राप्ताश्च शीकराहतधातुशिलाजलनिषण्णराजितजलजम् / सह्य निर्झरप्रहसितदरीमुखनिर्मथितबकुलमदिरामोदम् // ] सेयं मूर्धन्यानां प्रथमचतुर्थपञ्चमद्वित्रैस्तदावृत्त्या च प्रायो जायते // सततशीकरसिच्यमानगैरिकशिलातललुण्ठनेन जलदानां रञ्जनम् / विशीर्य पतनेनात्यन्तधवला निर्झरा एव हासो यस्य तादृशेन दरीमुखेनान्तःप्ररूढबकुलकुसुमामोदनिःसरणरञ्जितजलधरप्रतिबिम्बभूतताम्रनयनोन्मुद्रणात् / हासबकुलामोदाभ्यां च क्षीबतारोपरूपा समासोक्तिव॑न्यत इत्याराध्याः / ओज्जुरो निर्झरः / णिम्महिअं निःसृतम् // प्रौढा यथा'कृत्वा पुंवत्पातमुच्चै गुभ्यां मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः / कुर्वन्ति द्यामुत्पतन्तः स्मरात खर्लोकस्त्रीगात्रनिर्वाणमत्र // 192 // ' सैषा प्रायेण मूर्धन्यानामन्तःस्थानां संयोगात्पूर्वगुरुत्वेन जायते // मृगवस्तटाः / भृगुपातस्य सुरस्त्रीसंगमः फलम् / अत्र कुर्वन्खलॊकनिवर्येतेषु मूर्धन्यानामन्तःस्थसंयोगा उच्चैःशब्द इत्यादौ खभावगुरूणामपि पूर्वरूपसंयोगसनिधौ छायाविशेषो भवतीत्याहुः केचित् // मधुरा यथा 'किञ्जल्कसङ्गिशिञ्जानभृङ्गलाञ्छितचम्पकः / / ... अयं मधुरुपैति त्वां चण्डि पङ्कजदन्तुरः // 193 // सैषा प्रायोऽनुखारपुरोवर्तिस्पर्शतया जायते //