________________ 2 परिच्छेदः / सरस्वतीकण्ठाभरणम् / 239 अन्ये पुनरन्यथा वृत्ति व्याचक्षतेस्पर्शादीनामसंबन्धः संबन्धो वापि यो मिथः। स्फुटादिबन्धसंसिध्यै सेह वृत्तिर्निगद्यते // 83 // अन्ये पुनरिति / वर्णानां वर्तनं वर्तनाधिष्ठानं च वर्तिपदेनाभिमतम् / आये संघटनविघटनाभ्यां द्विधा / समस्तव्यस्तभेदेन संघटनविघटने द्विधा / कादयो मावसानाः स्पर्शाः / आदिग्रहणादन्तःस्थोष्मणोः संघटनबहुल: संदर्भः प्रस्फुटः / विघटनबहुलः कोमलः / उभयबहुल उन्मिश्रः // काव्यव्यापी च संदर्भो वृत्तिरित्यभिधीयते / सौकुमार्यमथ प्रौढिमध्यमत्वं च तद्गुणाः॥ 84 // गम्भीरौजस्विनी प्रौढा मधुरा निष्ठुरा श्लथा। कठोरा कोमला मिश्रा परुषा ललितामिता // 85 // द्वितीयं वृत्तिशब्दार्थमाह-काव्यव्यापी चेति / अत्रापि दोषप्रसङ्गापाकरणार्थमाह-सौकुमार्यमिति / अत एव [सौकुमार्यप्रौढिमध्यमत्वानि ] गुणाः। शैथिल्यपरुषत्वे तु दोषावित्यर्थः // इति द्वादशधा भिन्ना कविभिः परिपठ्यते / / कारणं पुनरुत्पत्तेस्त एवासां विजानते // 86 // * योगासंयोगयोः प्रतियोगिव्यवस्थाविरहात्कथं द्वादशप्रकारता व्यवस्थितिरित्याशयवानाह-कारणं पुनरिति // : तासु गम्भीरा यथा 'अप्फुन्दन्तेण णहं महिं च तडि उद्धमाइअदिसेण / - दुन्दुभिगम्भीररवं दुण्डुहिअं अम्बुवाहेण // 190 // ' [आस्पन्दता नभो महीं च तडिदुध्मापितदिशा / . . दुन्दुभिगम्भीररवं दुन्दुभितमम्बुवाहेन // ] . सैषा प्रायस्तवर्गपवर्गयोस्तृतीयचतुर्थानां पकारफकारयोश्च खसंयोगबिन्दुयोगाभ्यां जायते //