________________ 228 : काव्यमाला। मकलकं शान्तं शान्तरूपं अमितमनन्तम् / चः समुच्चये / कमलासनं ब्रह्माणमभिलक्षीकृत्य विराजन्तं शोभमानं मानय पूजयेति // .. - संस्कृतभाषायां यथा रुचिभी रञ्जिता अरिहेतयश्चक्रदीप्तयो येन तम्, जननैर्दशभिरवतारैर्मितं परिच्छिन्नम्, सामानि कायति गायति यः स सामकायस्तम्, न विद्यते कला यस्य सोऽकलस्तम्, कं सन्तं ब्रह्माणं अं विष्णुमितं गतम्, अभिविराज गरुत्मन्तमभि तं प्रसिद्धं कमलासनं श्रिया संसक्तं मा मां नय प्रापयेति // . एवं पैशाचादिभिरपि संस्कृतस्य प्राकृताश्च परस्परसंभेदनाच्छ्षो गवेषणीय इत्याशयवानाह-यथा वेति / अकलङ्क दोषरहितं मानयेति धात्वर्थस्य भाव्यत्वेनान्वयात्पूजां कुर्वित्यर्थः / ब्रह्माणमभिलक्षीकृत्येति / रुचय आत्मीयाः / अरा विद्यन्ते यस्य तदरि चक्रम् / हेतयः किरणाः / जननं जन्म / सामानि कायति कीर्तयतीति 'अपवादविषये क्वचिदुत्सर्गः प्रवर्तते' इति कर्मण्यण् / कला अवयवाः प्रसिद्धाः / वीनां पक्षिणां राजा गरुडस्तमभि इतं गतम् / कमला लक्ष्मीस्तस्या आसनमधिष्ठानं मा मां नयेति // आवृत्तिर्या तु वर्णानां नातिदूरान्तरस्थिता / अलंकारः स विद्वद्भिरनुप्रासः प्रदर्श्यते // 70 // अनुद्भटावृत्तेश्चित्रादुद्भटावृत्तिमनुप्रासं पूर्व लक्षयति-आवृत्तिरिति / वर्णानामिति वचनमतन्त्रम्। 'सारः सारखती मूर्तिः' इत्यादावेकवर्णावृत्तरप्यनुप्रासत्वात् / तेन यमकव्यतिरिक्ता वर्णावृत्तिरनुप्रास इति लक्षणमुक्तं भवति / न च श्लेषेऽतिप्रसङ्गः / तत्राभ्यां विशेषात् / पूर्वजातिप्रतिबिम्बनेन बन्धच्छायार्थकतयानुप्रासोऽलंकारपदवीमध्यास्ते / नच निर्निमित्तमेव प्रतिबिम्बनमत आह-नातिदूरेति / अस्ति कश्चिदुच्चारणस्य ज्ञानस्य वा विशेषो यः शीघ्रमेव संस्कारमुद्बोधयतीति तद्वती वर्णावृत्तिरभिप्रेता / अत एव प्राचीनवर्णजात्यनुगतः सहृदयावर्जकतया प्रकृष्टश्च वर्णानामनुप्रास इति काश्मीरिका निरुक्तिः //