________________ 2 परिच्छेदः / सरस्वतीकण्ठाभरणम् / 227 तरीति / उमाया एव वा इमानि संबोधनविशेषणानि / कान्तापक्षे तु—हे कान्ते, तव योऽयं हरिनार्याः श्रियाः सार उत्कृष्टो देहस्तत्र यद्वरं श्रेष्ठं विलोचनाननस्तनजघनादि तन्मे भावमभिलाषं हरतु / कामान्पूरयत्वित्यर्थः / किंभूते देहे / कुटिलालसभ्रूलेखे महिमोहहरे गृहे हारिणि विच्छिन्ने च तनुमध्यत्वादिभिरिति // . दिव्या संस्कृता / प्राकृता महाराष्ट्री। भावश्चेतसो लयः / लालस इच्छा तस्माद्भवतीति लालसभूः संकल्पयोनित्वात्कामस्तं लेढीति कर्मण्यण् / ऊहस्तर्कः संशयपृष्ठभावी विपरीतप्रत्ययविशेषः / कथं तं हरतीत्यत आह-महेश्वरसंनिधाविति / संनिधिः साक्षात्काररूपः। सर्वज्ञानानि संस्कारप्रवर्तकानि / 'तुहिर अर्दने' तोहतीति इगुपधत्वात्कप्रत्यये तुहा अरयः। ते द्विधा-आन्तराः, बाह्याश्च / आन्तरा मदमानादयः षट्, बाह्याः क्षेत्रापहारकादयः / तत्र पूर्वावच्छेदे च हरिणारिसारदेहत्वं हेतुरुक्तः / हरिणारिसार इव सारो यस्येत्युत्तरपदलोपे हरिणारिसारो देहो यस्येति विग्रहवाक्यमवसेयम् / यथाश्रुत्यर्थकथनमात्रमुमाया एवेत्यत्र लालसभूलेह इत्यच्प्रत्यये व्याख्येयम् / तुशब्दस्तवार्थे / 'तुतुवतुह्मतुब्भतुज्झा डसः' इति सूत्रात् / हरिनारी लक्ष्मीस्तस्याः सकाशात् सारः प्रकर्षशाली देहः / ‘पञ्चमी' इति योगविभागात्समासः / कुरुलार्णकुन्तलाः / महीशब्देन भूगोलवर्तिनः प्राणनोऽभिमतास्तेषां मोहगृह इति व्याख्येयम् / विच्छिन्नो विभक्तावयवः // यथा वा--- 'रुचिरञ्जितारिहेतिं जननमितं सामकायमकलङ्कम् / सन्तममितं च मानय कमलासनमभिविराजन्तम् // 164 // ' 'भूतसंस्कृतभाषाभ्यां द्विर्नमस्कृत्य माधवम् / जगाम समरं कोऽपि कस्य श्रेयसि तृप्तयः // 165 // ' तत्र भूतभाषायां यथारुचिरं मनोहरं जितारिहेति भमसपत्नायुधं जनैनमितं श्यामकाय