________________ 226 काव्यमाला। 'अलंकारः शङ्काकरनरकपालं परिजनो . विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः / अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी // ' इति वर्णश्लेषः काश्मीरकैः पृथगुदाहृतः / अत आह-वर्णश्लेषोऽपीति / अवयवाभेदे समुदायसंभवादवयवभेदे च समुदायभेदध्रौव्यात्पदश्लेषव्यवस्थितौ तत्रैवास्यान्तर्भावो युक्त इति भावः / अलमत्यर्थं पाता रक्षिता, आशानां निबन्धनं मनोरथसफलीकरणबीजं, आशानां दिशां संश्लेषस्थानम् , चामरमरुद्भूमिः खोकोऽमराणामिन्द्रादीनां भूमिरमरावत्यादिर्मरुतां च विवहादीनां भूमिर्वैमानिकपथश्चामरमरुद्भूमिश्चामरमरुतामाश्रयश्च / कथमत्र वर्णश्लेष इत्यत आह–अत्रेत्यादि / 'पतिचण्डिभ्यामालञ्' इति पतेरालप्रत्यये पातालमिति रूपसिद्धावाकार एव मध्यवर्तिवर्णः, तत्रैव पुनरेकदेशप्रतिसंधाने पातालमित्याकारश्च प्रतीयते / अत्र च “एकः पूर्वपरयोः' इति वचनादाकार एव श्रूयते तेनोत्तरः पौरस्त्येन संभिन्नः / एवं चकारस्योत्तरसंभेदो व्याख्येयः // भाषाश्लेषो यथा'कुरु लालसभूलेहे महिमोहहरे तुहारिविच्छिन्ने / हरिणारिसारदेहे वरे वरं हर उमे भावम् // 162 // अत्र'ध्यानानीतां च रुद्राणी कान्तां च पुरतः स्थिताम् / रणेच्छुः कश्चिदानचं दिव्यप्राकृतया गिरा // 163 // तत्र रुद्राणीपक्षे हे उमे, हरे भवे वरं श्रेष्ठं भावं कुरु / किंभूते / लालसभूलेहे लालसभूः कामस्तं लेढि यस्तस्मिन् / तथा महिना प्रभावेणोहं वितर्कमपहरति यस्तस्मिन्महिमोहहरे। महेश्वरसंनिधौ हि सर्वज्ञानाभिभव इति श्रूयते। अतएव तोहन्ति अर्दयन्ति तुहा अरयस्तैर्विच्छिन्ने विरहिते / अपरमप्यरीणां विच्छेदकारणमाह-हरिणारिसारदेहे हरिणारिः सिंहस्तस्य सारो बलं स देहे यस्य तस्मिन् / वरे परि