________________ 2 परिच्छेदः / सरखतीकण्ठाभरणम् / 225 एकवचनबहुवचनाभ्यां विशेषणेषु संबन्धयोग्यताक्षेपात्तिवचनेषु सुब्वचनेषु च यथायथमर्थद्वयोन्मीलनाच्छब्दरूपद्वयोद्भेदः / एकवचनेन वलयः कङ्कणं बहुवचनेन च मध्यरेखा इति सुबन्तपदे। एतदौचित्ये तिङन्तपदे चाभवन्निति वचनद्वयलाभः / न चानयोः किंचिदुद्भेदकं निबद्धमिति निरुद्भेदोऽयम् / तदेतदाहअत्रेत्यादि // पदश्लेषो यथा'अरिमेदः पलाशश्च बाहुः कल्पद्रुमश्च ते / बालेवोद्यानमालेयं सालकाननशोभिनी // 160 // ' अत्र प्रकृतिप्रत्ययविभक्तिवचनानां पृथगभिधानादभिधानमालोक्तानि प्रातिपदिकान्येव पदशब्देनोच्यन्ते / तेन पूर्वार्धे शत्रुमेदोमांसादस्ते बाहुरित्यर्थेनारिमेदपलाशाख्यवृक्षनाम्नी श्लिष्येते / उत्तरार्धे च सालानां काननेन शोभत इत्येवंशीलेयमुद्यानमालेव व्यर्थेन सालकेनाननेन शोभत इत्येवंशीला बालेत्युपमानार्थः श्लिष्यते / स एष पदश्लेषो नाम शब्दश्लेषः // . अरीणां मेदः शरीरधातुभेदः, पलं मांसमन्नाति यः स तथा, चकार उत्तरवाक्यापेक्षया / अरिमेदो विट्खदिरः, पलाशः किंशुकः, सालास्तरुविशेषास्तेषां काननम् , अलकाश्रूर्णकुन्तलास्तत्सहितमाननं च / पूर्वोत्तरार्धयोनैकवाक्यत्वमुदाहरणत्वात् / ननु विभक्त्यन्तान्नान्यत्पदं तत्र पूर्वभागेन प्रकृतिश्लेष उत्तरभागेन च प्रत्ययश्लेष उद्दिष्ट एव, तत्कोऽन्यः पदश्लेष इत्यत आह–अत्रेति / प्रकृतिप्रत्ययभावविवक्षाविरहे नाममालोक्तानि प्रातिपदिकान्येवावशिष्यन्त इत्यर्थः // . वर्णश्लेषोऽपि पदश्लेष एव / स यथा• त्वमेव देव पातालमाशानां वं निबन्धनम् / त्वं चामरमरुभूमिरेको लोकत्रयात्मकः // 161 // अत्र त्वमेव पातालमित्यकारः पाश्चात्ये, त्वं च अमरमरुभूमिरिति चकारः पौरस्त्येऽक्षरे श्लिष्टः पातालं चामरे इति च पदं रचयति / सोऽयं पदश्लेष एव वर्णश्लेष इत्युच्यते // 15 स० क.