________________ 224 काव्यमाला / द्वितीयो यथा'त्वमेव धातुः पूर्वोऽसि त्वमेव प्रत्ययः परः / .. अनाख्यातं न ते किंचिन्नाथ केनोपमीयसे // 157 // अत्र धातुरिति प्रथमान्तस्य षष्ठयन्तस्य चैकरूपत्वाद्भिन्नार्थकत्वाचाभिन्नजातीयसुब्विभक्तिश्लेषोऽयम् // . धातुर्जगन्निर्मातुरपि पूर्व इत्यनेनानादित्वमुक्तम् / परः प्रत्ययः कारणत्रयरूपं न किंचिदनाख्यातम् / श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धावदानत्वात् / द्वितीयस्याभावान केनचिदुपमानम् / अर्थान्तरे तु धातुः क्रियावचनशब्दरूपः पूर्व एव प्रकृतित्वात्ततः परः प्रत्ययः तिङादिः / अतः सर्वमाख्यातमेव पदं निष्पद्यते / तेन च कथं तिङन्तेनोपमानमस्ति भिन्नार्थत्वाचेति ' शब्दभेददृढीकरणार्थमुक्तम् / एवं तिडामपि संमेद उदाहरणीयः / यथा 'माद्यन्तु नाम कवयस्तथापि विदितश्रमाः / वेद विद्या पतिर्वाचामहं वाचोरिवान्तरम् // ' अत्र वेदेति प्रथमोत्तमयोः पुरुषयोरेकवचने श्लिष्येते // वचनश्लेषो द्विधा-सोद्भेदः, निरुद्भेदश्च / तयोः सोद्भेदो यथा'प्राज्यप्रभावः प्रभवो धर्मस्यास्तरजस्तमाः / / मुक्तात्मा नः शिवं नेमिरन्येऽपि ददतां जिनाः // 158 // ' . अत्र नेमिरित्यन्येऽपीति एकवचनबहुवचनाभ्यां ददतामित्यत्र तिङन्ते प्राज्यप्रभावः प्रभव इत्यादिषु च सुबन्तेष्वेकवचनबहुवचनयोरुद्भेद इत्ययं सोद्भेदो नाम वचनश्लेषः / / निरुद्भेदो यथा... 'तनुत्वरमणी यस्य मध्यस्य च भुजस्य च / __अभवन्नितरां तस्या वलयः कान्तिवृद्धये // 159 // ____ अत्राभवन्निति वलय इति पदयोस्तिङन्तसुबन्तयोरेकवचनबहुवचने अनुद्भिन्ने एव श्लिष्येते इत्ययं निरुद्भेदो नाम वचनश्लेषः // .