________________ '2 परिच्छेदः / ) सरस्वतीकण्ठाभरणम् / 223 द्वितीयो यथा_ 'त्वदुद्धृतामयस्थानरूढवणकिणाकृतिः। * विभाति हरिणीभूता शशिनो लाञ्छनच्छविः // 155 // ' अत्र हरिणीभूतेति च्वेर्जीपश्च तुल्यरूपतायां तदुद्भेदो नास्तीत्यनुद्वेदः प्रत्ययश्लेषोऽयम् // व्रणरूढिस्थानं श्यामं भवतीति लाञ्छनच्छायाभूता कीदृशी हरिणी हरिता। 'वर्णादनुदात्तात्तोपधात्तो नः' इति दीपि नादेशे च रूपम् / सेयं प्रतीयमानगुणनोत्प्रेक्षा / अहरिणरूपापि व्यवहारारूढहरिणतामापन्नेति विप्रत्यये च हरिणीभूते रूपम् / अत्र डीपश्वेर्वा न किंचिद्भेदकं निबद्धमिति.निरुद्भेदः प्रत्ययश्लेषोऽयम् / हरितहरिणरूपे प्रकृती अपि संभिन्ने एव / संकरस्यादूषणत्वात् / एवं पूर्वोदाहरणेऽपि // विभक्तिश्लेषो द्विधा-भिन्नजातीययोः, अभिन्नजातीययोश्च / तयोराघो यथा __ 'विषं निजगले येन बभ्रे च भुजगप्रभुः / * देहे येनाङ्गजो दधे जाया च स जयत्यजः // 156 // ' -- अत्र येन विषं निजगले, भुजगराजश्च निजगले बभ्रे, अङ्गजो देहे, जाया च दः इति तिङ्सुब्विभक्त्योः लिडात्मनेपदप्रथमपुरुषैकवचनसप्तम्येकवचनान्तयोरेकरूपत्वाद्विभिन्नार्थकत्वाद्भिन्नजातीयसुप्तिविभक्तिश्लेषोऽयम् // निजगल इति गिरतेः कर्मणि लिटि रूपम् / येन विषं कालकूटाख्यं निगीर्णम् , निजे च गले कण्ठे भुजगराजो धृतः। देह इति दहतेस्तत्रैव [कर्मणि लिटि] रूपम् / अङ्गजः कामो येन दग्धः, निजे च देहे शरीरे जाया पार्वती धृता स . जयतीति / विवरणग्रन्थः सुबोध एव //