________________ 222 काव्यमाला। आत्मनः कीर्तिं नौति स्तौति / परेषां शत्रूणां च नुदति क्षिपति / द्विषां भयं / करोति जनयति / सुहृदां च भिनत्तीति धातुरूपप्रकृतिमेदादेवार्थभेदः क्विप्प्रत्ययस्य साधारण्यात् // लिङ्गश्लेषोऽपि प्रकृतिश्लेष एव / स यथा 'कुवलयदलधुतासौ दृशा च वपुषा च कं न दर्शयते / ___ अधरीकृतप्रवालश्रियाशिणास्येन च नतभूः // 153 // अत्र दृग्वपुषोरास्यचरणयोश्च कुवलयदलातेत्यधरीकृतप्रवालश्रियेति च लिङ्गभेदेऽपि तुल्यरूपे विशेषणे इति लिङ्गश्लेषोऽयम् // . ननु 'वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानाम्' इति कैश्चित्परिसंख्यातम् , ततश्चाष्टधा श्लेषो भविष्यतीत्यत आह-लिङ्गश्लेषोऽपीति / तदिदमुदाहरणीयमित्याह-स यथेति / दर्शयत इत्यात्मनेपदेन तटस्थमपि कं न हठाद्दर्शनाय प्रेरयतीति व्यज्यते / अधरीकृता जिताधरत्वमापादिता च / ननु च कुवलयदलद्युतेति अधरीकृतप्रवालश्रियेति च प्रकृतिभागो न भिद्यते, तत्कथमयं प्रकृतिश्लेष इति / नैतत् / आविष्टलिङ्गद्वयविशेष्यलिङ्गद्वयसंनिधानादनाविष्टलिङ्गं विशेषणमवश्यमुभयलिङ्गग्राहि वाच्यम् / पञ्चकप्रातिपदिकार्थपक्षे विभक्तिोतिकैव तथा च लिङ्गभेद इति विभिन्ने विशेषणप्रकृती मिथःसंश्लिष्टे इति / अत्रेत्यादि / प्रत्ययश्लेषः सोद्देदो निरुद्भेदश्च / तयोराद्यो यथा'तस्या विनापि हारेण निसर्गादेव हारिणौ / जनयामासतुः कस्य विस्मयं न पयोधरौ // 154 // ' अत्र हारिणाविति इनिणिनिप्रत्यययोरेकरूपत्वाद्विनापि हारेणेति च मत्वर्थीयोद्भेदात्सोद्भेदप्रत्ययश्लेषोऽयम् // तद्वाक्यस्थशब्दान्तरप्रकाशितः सोद्भेदः, अतथाभूतो निरुद्भेदः / मत्वांयेनिप्रत्यये हारवन्तौ हारिणौ / आवश्यकाणिनिप्रत्यये सहृदयानां मनोहरत इति हारिणौ / आनन्दघनरसचर्वणारूपो विस्मयोऽद्भुतं च / अपिशब्देन विरोधद्योतकेन हारहीनयोरपि हारसंबन्धो विस्मयरसार्पक इति मत्वर्थीयोन्मुद्रणात्सोदः / प्रत्ययश्लेषस्तु कथं भवतीत्यत आह–इनिणिनिप्रत्यययोरिति //