________________ 2 परिच्छेदः / ] सरखतीकण्ठाभरणम् / 229 - श्रुतिभित्तिमिर्वः पदैर्नामद्विरुक्तिभिः। लाटानामुक्तिभिश्चायं षट्प्रकारः प्रकाशते // 71 // .. एवं स्थिते सामान्यलक्षणविभागमाह-श्रुतिभिरिति / आवृत्तिद्धिधावर्णमात्रावलम्बिनी, समुदायगोचरा च / आद्यापि द्विधा-सामान्यतः, रूपतश्च / सामान्यमपि द्विधा-स्थानतः, व्यापारतश्च / तत्र स्थानं कण्ठादिलक्षणं सैव श्रुतिः / श्रूयते हि तयाभिव्यक्तो वर्णव्यापारोऽभिव्यञ्जनरूपः, स एव रसविषये वर्तनं वृत्तिरुच्यते / श्रुतिभिरित्यादी इत्थंभूतलक्षणे तृतीया // / प्रायेण श्रुत्यनुप्रासस्तेष्वनुप्रासनायकः। सनाथैव हि वैदर्भी भाति तेन विचित्रिता // 72 // प्रायेणेति / श्रुत्यनुप्रासो हि श्लेषघटकः / श्लेषश्च गुणान्तरसमकक्षतयावतिष्ठमानो वैदर्भी प्रयोजयति / अनुप्रासान्तरं तु प्रौढिं वा माधुर्यं वा प्रकर्षयतीति न तथानुकूल्यम् / कविशक्तिवशानु क्वचित्तदपि प्रयोजयतीति प्रायपदेन सूचितम् / स्थितिप्रयोजको लोके नाथ इत्युच्यते, तेषु नायक इत्येव वक्तव्ये पुनरनुप्रासपदमनुप्रासान्तरसाधारण्येनैव शब्दालंकारत्वं दर्शयितुमिति समाधेयम् / विचित्रिता आलेख्यमिव लेखया चमत्कारकारित्वमानीता // . .... निवेशयति वाग्देवी प्रतिभानवतः कवेः। __पुण्यैरमुमनुप्रासं. ससमाधिनि चेतसि // 73 // कथं पुनरस्यानुप्रासस्य पृथक्प्रयत्नानुसंधेयस्यापि रसप्रकाशसामग्र्यामन्तर्भाव इत्यत आह-निवेशयतीति / अक्लिष्टपदवाक्यार्थस्फुरणं प्रतिभानम् / तदेव कथमित्यत आह-ससमाधिनीति / पुण्यैरिति / तेन रसवत्त्वव्यवस्थितस्य कवेरहपूर्विकाकृष्टोऽनुप्रासो न पृथक्प्रयत्ननिर्त्य इति तात्पर्यम् / ग्राम्यादिभेदोऽग्रे विवरिष्यते // स त्रिधा—ग्राम्यः, नागरः, उपनागरश्च / तेषु ग्राम्यश्चतुर्धामसृणः, वर्णमसृणः, वर्णोत्कटः, वर्णानुत्कटश्च / तेषां मसृणो यथा 'एष राजा दयालक्ष्मी प्राप्तवान्ब्राह्मणप्रियः। ___ तदा प्रभृति धर्मस्य लोकेऽस्मिन्नुत्सवोऽभवत् // 166 // '