________________ 220 काव्यमाला / इदानीं क्रमप्राप्तं महायमकं लक्षयन्नाह-एकाकारेति। द्विविधमेकाकार भवति / एकमावृत्तिचतुष्केण, अपरमावृत्त्यष्टकेन। तदिदमुक्तमाद्यं पुनरनावृत्तमिति / प्रतिपादमवान्तरावृत्तिभेदेनैवाष्टकनिर्वाहात् // तत्राव्यपेतभेदे महायमकं यथा'सभासमानासहसापरागात्सभासमाना सहसा परागात् / सभासमाना सहसापरागात्सभासमाना सहसापरागात् // 149 // ' भासः कान्तिः, मानश्चित्तसमुन्नतिः पूजा वा, आसः शत्रुविधूननम् , हसः स्मरता, एतैः सह वर्तते इति सभासमानासहसा यतोऽपरागं चित्तकालुष्यमत्ति। भासमानैः शोभमानैः सह वर्तते सभासमाना / सहसा मार्गशीर्षण हेतुना प्रावृड्विच्छेदप्रादुर्भूतान् परागान् रजःकणानतति प्राप्नोतीति परागात् / भा कान्तिस्तया समाना सरूपास्तैः सह वर्तत इति सभासमाना। षोऽन्तकर्मणि / स्यन्ति परानिति साः, तैः सह वर्तत इति सहसा / एवंभूता असमामा अनुपमा सभा जनसमवायोऽपरागादपरस्मात्पर्वतात् सहसा शीघ्रं परागात्परागतेति // - व्यपेतभेदे द्वितीयं महायमकं यथा'प्रवणमदभ्रमदचलद्विपराजितमूढविमलमहिततरङ्गं विरसं सदातिमिश्रितमच्युतधाम प्रतीतशिखिचरितवनम् / प्रवणमदभ्रमदचलद्विपराजितमूढविमलमहिततरङ्गं विरसं सदातिमिश्रितमच्युतधामप्रतीतशिखिचरितवनम् !!150 // ' प्रवणं प्रकृष्टतरवनम् / 'प्रनिरन्तःशर-' इत्यादिना णत्वम् / अदभ्रेण महता मदेन दर्पण चलन्तो ये वयः पक्षिणस्तैः पराजिता मूढवयोबालाः पक्षिणो यत्र तम्, अलमत्यर्थ पूर्वोक्तरूपानमूढान् वीन् पक्षिणो मलते धारयतीति वा / अहिततरङ्गं भुजङ्गव्याप्तावर्तस्थानम् / विरसमतलस्पर्शतया भूभागरहितम् / सदा सर्वकालं तिमिभिर्महामत्स्यैः श्रितमाश्रितम् / अच्युतस्य भगवतो नारायणस्य धाम विश्रान्तिस्थानम् / प्रतीतः प्रख्यातः शिखी वडवानलस्तन चरितवनं भक्षितजलोत्पीडमिति प्रथमः श्लोकार्थः / प्रवणमदाः मदायत्तदर्पाः सततनिस्यन्दमानमदजलाश्च श्रमन्तो ये मैनाकप्रभृतयोऽचला द्विपाः करिमकराश्च तैः शोभितम् / ऊढा विमला खभावनिर्मला महिताः पूजितास्तरङ्गा येन तम् / विरसं क्षारम् / सतीभिः शोभ