________________ '2 परिच्छेदः।] सरस्वतीकण्ठाभरणम् / 219 तेषु व्यपेतो यथा'अनेकपादभ्रमदभ्रसालं मान्ये दृशाभीरुपतत्रिकूटम् / अनेकपादभ्रमदभ्रसालं मान्ये दृशा भीरु पतत्रिकूटम् // 146 // " अनेकेषु पादेषु प्रत्यन्तपर्वतेषु भ्रमन्त्यभ्राणि मेघा एव सालो वरणः प्राकारः, मान्याः पूजाहा ईदृशा यथादृश्यं तथैव मनोहारिणोऽभीरवो भयरहिताः पतत्रिकूटाः पक्षिसङ्घा यत्र, अनेकपा हस्तिनस्तेषामदभ्र उत्कटो मदस्तं भरन्ति धारयन्तीति मूलविभुजादित्वात्कप्रत्यये अनेकपादभ्रमदभ्राः साला वृक्षा यत्र / मान्ये भीविति संबोधनद्वयम् / मानःशृङ्गारभावस्तदर्हा दृशा त्रिकूटं पर्वतमालोकयेति // अव्यपेतो यथा'धनं विदायोर्जुनबाणपूगं घनं विदार्यार्जुनबाणपूगम् / ससार बाणोऽयुगलोचनस्य ससारबाणोऽयुगलोचनस्य // 147 // ' विदारी कन्दभेदः, अर्जुनः ककुभः, बाणो गुल्मविशेषः, पूगो गुवाकः / वृक्षद्वन्द्वत्वात्पाक्षिक एकवद्भावः / अर्जुनः पार्थस्तस्य बाणपूगं शरसमूहस्त विदार्य भित्त्वा / अयुगलोचनस्त्रिनेत्रः किरातस्वरूपधरस्तस्य ससार गतः सारबाण उत्कृष्टशब्दस्तेन सहितोऽयुगद्वितीयः, अलोचनस्य दुर्ज्ञानस्य // व्यपेताव्यपेतो यथा'कलापिनां चारुतयोपयान्ति वृन्दानि लापोढघनागमानाम् / वृन्दानिलापोढघनागमानां कलापिनां चारुतयोऽपयान्ति // 148 // ' पादत्रयाभ्यासस्तु नातिसुन्दर इति तद्भेदा नोदाह्रियन्ते // के पानीये लपनशीला हंसास्तेषां वृन्दानि चारुतया मनोज्ञभावेनोपयान्ति संगच्छन्ते / लापेन परस्परसंलापमात्रेणोढः प्राप्तो घनो निरन्तर आगम आगमनं येषाम् / वृन्दानिलो वाल्या तेनापोढो निराकृतो घनागमो मेघदुर्दिनं कलापिनो मयूरा आरुतयः समन्ततः केकायितानि अपयान्ति तिरोभवन्ति / एकश्लोके पादत्रयाभ्यासस्यासंभवाच्छ्रोकान्तरे च तथा सौन्दर्याभावात्पादत्रयाभ्यासो न चिन्तनीय इत्यत आह - पादत्रयेति // एकाकारचतुष्पादं महायमकमुच्यते / श्लोकाभ्यासश्च तत्राचं पुनरभ्यासमर्हति // 67 //