________________ 218 काव्यमाला / समं समकालं क्षणेन ततो विस्तीर्णस्तामनुभवैकसाक्षिचिन्तानुवृत्तिलक्षणां निर्व. तिमरसे इति सोपालम्भसंबोधनम् / समन्ततः सर्वतस्तामरसेक्षणे कमलनेत्रे न किमपाकरोतीति पूर्वेण संबन्धः॥ व्यपेतभेदेषु प्रथमतृतीययोर्यथा'सभा सुराणामबला विभूषिता गुणैस्तवारोहि मृणालनिर्मलैः / सभासुराणामबला विभूषिता विहारयन्निर्विश संपदः पुराम्॥१४३॥' अबला बलाख्येन दानवेन रहिता विभुना शक्रेणाध्यासिता सुराणां देवानां सभा मृणालनिर्मलैस्तव गुणरारोहि यतः, अतः स त्वं पुरामबला विभूषिताः स्त्रियोऽलंकृता विहारयन् भासुराणां सतां संपदो निर्विशेत्याशंसा // तत्रैव प्रथमचतुर्थयोर्यथा'कलं कमुक्तं तनुमध्यनामिकास्तनद्वयीं च त्वदृते न हन्त्यतः / न याति भूतं गणने भवन्मुखे कलङ्कमुक्तं तनुमध्यनामिका // 144 // कलं मधुराव्यक्तं उक्तं भाषितं तनोर्मध्यस्य भरेण नामिकास्तनद्वयीं च त्वां विहाय कं नायकं हन्ति वशीकरोति / अतो जितेन्द्रियेषु प्रथमगणनीये त्वयि सति कलङ्कमुक्तं निर्दोषं तनुमधि शरीरमधिकृत्य भूतमनामिकाऽनामिकाङ्गुलिः न याति परस्य त्वत्सदृशस्याभावात् / निर्दोषो हि लोके ऊर्ध्वाङ्गुल्या निर्दिश्यते // एवं द्वितीयचतुर्थयोरपि यथा'या बिभर्ति कलवल्लकीगुणवानमानमतिकालिमालया / नात्र कान्तमुपगीतया तयाखानमा नमति कालिमालया // 145 // ' वल्लकीगुणवानो वीणाशब्दस्तस्य मानं या बिभर्ति / कालिम्नः श्यामताया आलया कजलप्रभृतीनतीत्य वर्णप्रकर्षेण या स्थिता, तया गातुमुपक्रान्तया भ्रमरमालया हेतुभूतया का नामात्र पर्वतं कान्तं न नमति न प्रणमतीति न, न सुखेन आनम्यते इति अस्वानमा या प्रागासीत् साप्युद्दीपनप्रकर्षे निःशेषितमाना नमतीत्यर्थः॥ अर्धाभ्यासः समुद्गः स्यात्तस्य भेदात्रयो मताः। व्यपेतश्चाव्यपेतश्च उभयात्मा च सूरिभिः // 66 //