________________ * 2 परिच्छेदः।) सरस्वतीकण्ठाभरणम् / 217 मत्यर्थं सा लङ्का / तपनीयं सुवर्णम् / तापनीयं च तद्भासुरं चेति कर्मधारयः / रक्षसां भरः समूहस्तस्य क्षोभः प्रकर्षजः कोलाहलः / त्रिकूटः सुवेलः / अकलङ्का दोषरहिता / अकलिकानि कलिरहितान्यद्रिकूटानि सुवेलशिखराणि यस्यां सा तथा // यत्सूक्ष्मं भागं बह्वावृत्ति तदपि स्थूलसूक्ष्ममेव / यथा'मधुरया मधुबोधितमाधवी मधुसमृद्धिसमेधितमेधया / मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे // 139 // " यत्सूक्ष्मं भागमिति / भागशो विविच्यमानं सूक्ष्ममेव, वृत्तिभूयस्तया तु स्थूलमिव प्रथत इति सूक्ष्मेक्षिकयाभिधानम् // स्थानास्थान विभागोऽयमव्यपेतव्यपेतयोः / क्रमेणोक्तस्तयोरेव पादभेदोऽथ कथ्यते // 65 // क्रमप्राप्तमिदानी पादयमकमुदाहियत इत्याह-स्थानास्थानेति // तत्र व्यपेतभेदेषु प्रथमपादयोरावृत्तिर्यथा'न मन्दयावर्जितमानसात्मया नमन्दयावर्जितमानसात्मया / उरस्युपास्तीर्णपयोधरद्वयं मया समालिङ्ग्यत जीवितेश्वरः॥१४०॥' न मन्देति / मन्दया. तत्कालोचितप्रतिपत्तिविधुरया आवर्जितो मान ईर्ष्यारोषलक्षणो यया सा तथा / सात्मा आत्मवती / अनयोः कर्मधारयः / नमन्पादान्ते लुठन्नपि द गाजितो मानसात्मानौ यस्या इति बहुव्रीहेर्डाए // तत्रैव द्वितीयतृतीययोर्यथा- , 'दृश्यस्त्वया पुरतः पयस्वानानाकलाली रुचिरेण नेत्रा / नानाकलाली रुचिरेणनेत्रा देवी यदस्मादजनि खयं श्रीः // 141 // ' आनाकं स्वर्गावधि ललनमुल्लासस्तच्छीलः रुचिरेण मनोहरेण नेत्रा नायकेन नानाकलानां चातुःषष्टिकीनामाली परम्परा / एणनेत्रा हरिणलोचना / द्वयमपि श्रीविशेषणम् // एवं तृतीयचतुर्थयोरपि यथा'स्मरानलो मानविवर्धितो यः स निर्वृतिं ते किमपाकरोति / समं ततस्तामरसे क्षणेन समन्ततस्तामरसेक्षणे न // 142 //