________________ _ नाह सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः॥ इति कमलदलाम्बुबिन्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितं च। सकलमिदमुदाहृतं च बुवा न हि पुरुषैः परकीर्तयो विलोप्याः॥' .. सं० 1076 माघशुदि 5 - इति स्वयमाज्ञा मङ्गलं महाश्रीः खहस्तोऽयं श्रीमोजदेवस्य / सोऽयं तृतीयो लेखः श्रीभोजदेवस्य एपिग्राफ़ियाइण्डिकायां प्रकाशितस्तत एवास्माभिरत्र समुद्धृतः। श्रीभोजदेवे शासति गुर्जरदेशीयानन्दपुरग्रामवासिना वज्रटसुतेनोव्वटेनोजयिन्यां निवसता शुक्लयजुर्वेदभाष्यमरचीति भाषान्ते स्पष्टमेवोल्लिखितं प्राप्यते / एवं प्रसिद्धस्य ज्योतिर्विदो भास्कराचार्यस्य पूर्वजाय भास्करभट्टाय भोजदेवेन विद्यापतिरित्युपाधिः प्रदत्तासीत् / एवं शकसंवत्सरे 964 विक्रमसंवत्सरे 1099 भोजदेवेन राजमृगाङ्काख्यः करणप्रन्थो व्यरचीति तदारम्भीयाहर्गणसाधनपद्यतोऽवसीयते। एवं आलबिरूनीनामा यात्रिकः इण्डियानाम्नि वपु. स्तके ( विक्रमसंवत् 1030 ख्रिस्तसंवत् 1087 लिखिते) धारायाः शासको भोज इति लिखति। _ भोजदेवो यदा कीर्तिमात्रावशेषो जातस्ततः कियन्तं चित् कालं पूर्वमेव चेदिदेशाधिपतिना कर्णराजेनार्धराज्यदानप्रलोभनेन गुर्जरदेशाधिपतिर्भीमः साहाय्यायाहूत आसीत् / उभाभ्यां च ताभ्यां भोजराजधानी समाक्रान्ता / अस्मिन्नेव काले श्रीमान् भोजदेवो ज्वरेण ग्रस्तः कथामात्रशेषः संजात इति कर्णेन सर्वमपि तदीयं राज्यं लुण्ठितमिति च प्रबन्धचितामणितो ज्ञायते / राजमृगाङ्कानुसारं 1099 विक्रमसंवत्सरं यावत् भोजसत्ता निश्चीयते / तदनन्तरमपि तस्य जीवितमासीदिति जयसिंहताम्रपत्रानुसारमनुमातुं शक्यम् / यतो जयसिंहस्तदुत्तराधिकारी जातः / तदीयं दानपत्रं च 1112 संवत्सरोष्टङ्कितमधिगम्यते। अतः सर्वथा 1110 विक्रमसंवत्सरासन्ने काले भोजदेवस्य परलोक-' यात्रा प्रायो निश्चिता।