________________ भ्रमत्संसारचक्रामधाराधारमिमां श्रियम् / प्राप्य ये न ददुस्तेषां पश्चात्तापपरं फलम् // ' इति जगतो विनश्वरं स्वरूपमाकलय्योपरि स्वहस्तोऽयं श्रीभोजदेवस्य / लिखितग्रामात् भूनिवर्तनशतैकनि 100 खसीमातृणगोचरयूतिपर्यन्तं हिरण्यादायसमेतं सभागभोगं सपरिकर सर्वादायसमेतं ब्राह्मणभाईलाय वामनसुताय वशिष्ठसगोत्राय वाजिमाध्यंदिनशाखायैकप्रवणाय च्छिच्छास्थानविनिर्गतपूर्वजाय मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये अदृष्टफलमङ्गीकृत्य चन्द्रार्कार्णवक्षितिसमकालं यावत्परया भक्त्या शासनेनोदकपूर्व प्रतिपादनमिति मत्वा तन्निवासिजनपदैयथादीयमानभागभोगकरहिरण्यादिकमाज्ञाश्रवणविधये भूत्वा सर्वमस्मै समुपनेतव्यमिति / सामान्यं चैतत्पुण्यफलं बुद्धास्मद्वंशजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्मादायोऽयमनुमन्तव्यः पालनीयश्च / उक्तं च 'बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः। यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् // यानीह दत्तानि पुरा नरेन्द्र र्दानानि धर्मार्थयशस्कराणि / निर्माल्यवान्तिप्रतिमानि तानि को नाम साधुः पुनराददीत // अस्मत्कुलक्रममुदारमुदाहरद्भि रन्यैश्च दानमिदमभ्यनुमोदनीयम् / लक्ष्म्यास्तडित्सलिलवुद्बुदचञ्चलाया .. दानं फलं परयशःपरिपालनं च // सर्वानेतान्भाविनः पार्थिवेन्द्रान् भूयो भूयो याचते रामभद्रः।