________________ शिवतत्त्वरत्नकलिका समराङ्गणसूत्रधाराख्यः शिल्पविषयकग्रन्थः / सरखतीकण्ठाभरणाख्योऽलंकारग्रन्थः।। सिद्धान्तसंग्रहाख्यो ग्रन्थः शैवविषयकः / सुभाषितप्रबन्धाख्यः सुभाषितग्रन्थः / एवमादयो बहवो ग्रन्थाः श्रीमता भोजदेवेन रचिताः समुपलभ्यन्ते / डॉ०टी० आफैक्टपण्डितविरचितपुस्तकसूचीग्रन्थे (Catalogus Cotalogarum) एत एव निबद्धाः / हनुमन्नाटकविषयेऽपि किंवदन्ती प्रसिद्धा यदेतनाटकं शिलोत्कीर्णं समुद्रप्रक्षिप्तमासीद् ततो भोजदेवेनैवोद्धृतमासीदिति / श्रीमतो भोजदेवस्य खहस्ताक्षराङ्कितं ताम्रपत्रत्रयमद्यावध्यधिगतम् / तेषु ताम्रपत्रद्वयं काव्यमालायामेव प्राचीनलेखमालानामके शिलालेखसंग्रहे समुद्धतमेव / यत्तृतीयमधिगतं तदप्यत्र समुद्धरामः। श्रीमतो भोजदेवस्य ताम्रपत्रम् / 'ॐ जयति व्योमकेशोऽसौ यः सर्गाय बिभर्ति ताम् / ऐन्दवीं शिरसा लेखां जगद्विजाङराकृतिम् // 1 // तन्वन्तु वः स्मरारातेः कल्याणमनिशं जटाः / कल्पान्तसमयोद्दामतडिद्वलयपिङ्गलाः // 2 // परमभट्टारकमहाराजाधिराजपरमेश्वरश्री [सी] यकदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीवाक्पतिराजदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीसिन्धुराजदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीभोजदेवः कुशली / स्थलीमण्डले घाघ्रदोरभोगान्तःपातिवटपद्रके समुपगतान् समस्तराजपुरुषान् ब्राह्मणोत्तरान् प्रतिनिवासिजनपदादींश्च समादिशत्यस्तु वः संविदितं यथास्माभिः कोङ्कणविजयपर्वणि स्नात्वा चराचरगुरुं भगवन्तं भवानीपतिं समभ्यर्च्य संसारस्यासारतां दृष्ट्वा 'वाताभ्रविभ्रममिदं वसुधाधिपत्य मापातमात्रमधुरो विषयोपभोगः। प्राणास्तृणाग्रजलबिन्दुसमा नराणां . धर्मः सखा परमहो परलोकयाने //