________________ श्रीमता भोजदेवेन धारायां सरस्वतीकण्ठाभरणनाम्नी पाठशाला स्थापितासीत् / तत्र च बहवो ग्रन्थाः श्यामपाषाणशिलासूत्कीर्णा भोजकालिका भोजोत्तरकालिको दयादित्यनरवर्मार्जुनवर्मकालिकाश्चोपलब्धाः / अतीव खेदास्पदं यत्तुरुष्कैः पाठशालास्थानं परमेश्वरस्मृतिस्थानत्वेन ( मसजिनाम्ना) कल्पितमथ ताः शिलाः सोपानत्वेनाधोमुखीकृत्य स्थापिताः / पुरातत्त्वविद्भिरन्विष्यान्विष्य शिलासु तासु भोजकृतं कूर्मशतकं प्राकृतभाषानिबद्धमथोऽवनिशतकमपि तद्भाषोपनिबद्धम् , पारिजतमञ्जरी नाटिका, भर्तृहरिकारिका एवमादयोऽन्येऽपि ग्रन्थाः समुद्भाविताः / पाठशालायाः सरस्वतीकण्ठाभरणनाम्न्याः सविध एव कूपमेकं सरस्वतीकूपत्वेन पुरा प्रसिद्धमासीद् यस्याधुनापि 'अकलकुई' इति नाम्ना प्रसिद्धिः / * भोजदेवेन बहुषु विषयेषु बहवो ग्रन्था उपनिबद्धाः / तेषां नामानि यथा आदित्यप्रतापसिद्धान्तः ( ज्योतिषे ) . आयुर्वेदसर्वखम् ( वैद्यके ) चम्पूरामायणम् (चम्पू:) चाणक्यनीतिः (?) चारुचर्या ( धर्मशास्त्रे ) तत्त्वप्रकाशः ( शैवविषये) नाममालिका (कोषे) युक्तिकल्पतरुः राजमार्तण्डः ( पतञ्जलिकृतयोगसूत्राणां टीका ) राजमार्तण्डः ( वेदान्ते) ,, (ज्योतिष) राजमृगाङ्कः ( ज्योतिषे करणग्रन्थः।। घिद्याविनोदकाव्यम् विद्वज्जनवल्लभाख्यो ज्योतिषविषयकः प्रश्नग्रन्थः विश्रान्तविद्याविनोदाख्यो वैद्यकग्रन्थः व्यवहारसमुच्चयाख्यो धर्मशास्त्रग्रन्थः शब्दानुशासनम् शालिहोत्राख्योऽश्ववैद्यकग्रन्थः / .