________________ भोजप्रशंसनपरं भोजवियोगं वर्णयति / यचोदयपुरप्रशस्तौ तुरुष्कविजेतृत्वेन भोजवर्णनमुपलभ्यते ततो महमूदगझनवीति समाख्यातस्य तुरुष्कस्याक्रमणकालः हिजरी सन् 413= 'विक्रमसंवत् 1078 ख्रिस्तसंवत् 1021 संभाव्यते। यतस्तेन दुष्टेन यदा गोपाद्रिदुर्ग प्रति (ग्वालियर ) समाकान्तं तदानीं मालवदेशस्याधिपतिर्भोजदेव एवासीत् / गोपाद्रिदुर्गस्याधिपतिश्च कच्छपघातवंशीय आसीत् / यस्मिन् वंशेऽधुना जयपुरराज्यमास्ते / तुरुष्केण सह भोजस्य युद्धमभूदिति प्रायो निश्चितमेव / एवमेव भोजस्य देशविदेशेषु देवमन्दिरादिनिर्माणवर्णनमपि न निर्मूलम् / यतः . कलणपण्डितः 'मालवाधिपतिर्भोजः प्रहितैः स्वर्णसंचयैः / अकारयोन कुण्डयोजनं कपटेश्वरे // प्रतिज्ञा भोजराजेन पापसूदनतीर्थजैः। सततं वदनस्नाने या तोयैर्विहिताभवत् // अपूरयत्तस्य यस्ता दुस्तरां नियमादितः। प्रहितैः काचकलशीकुलैस्तद्वारिपूरितैः॥ स तस्य पद्मराजाख्यः पर्णप्राप्तिकदैशिकः। प्रियताम्बूलशीलस्य त्यागिनो वल्लभोऽभवत् // ' (चकलकम् ) (राजतरङ्गिण्यां सप्तमतरङ्गे श्लो० 190-193 ) प्रकारेणानेन भोजस्य कपटेश्वरे कुण्डनिर्मितिम्, प्रत्यहं पापसूदनतीर्थजैस्तोयेमुखप्रक्षालनम्, पद्मराजाख्यस्य ताम्बूलविक्रेतुस्तत्प्रतिज्ञानिर्वहणं च सुष्ठ वर्णितं काश्मीरकविदुषा / सोऽयं पर्णविक्रेता पद्मराजः काश्मीरकभूपतेरनन्तदेवस्यातीव वल्लभ आसीत् / कपटेश्वरकुण्डेऽद्यापि पाषाणमयी भित्तिर्भोजदेवस्य कीर्तिरूपेण तिष्ठति / कुण्डस्यास्य व्यासः 120 हस्तपरिमितः खातश्चापि तथाविधः / अस्यैव कुण्डस्य समीपे शिवमन्दिरमापे भोजदेवनिर्मितमिति किंवदन्ती / यथा पूर्वकाले राजानो भूयसा श्रमेण व्ययेन च गङ्गादितीर्थोदकमानीय प्रतिज्ञापूर्व पीतवन्तस्तथैव खर्गवासिनो जयपुरनरेन्द्रस्य माधवसिंहवर्मणोऽपि प्रतिज्ञानं प्रतिवर्ष श्रीगङ्गाजलसंग्रहश्चास्माभिः प्रत्यक्षं दृष्टम् / भवेदेवमेव भोजस्यापि प्रतिज्ञानं पापसूदनतीर्थतोंयतो मुखप्रक्षालनविषयकमिति नाश्चर्यास्पदम् /