________________ 2 परिच्छेदः। सरस्वतीकण्ठाभरणम् / 215 सदादेहमिति प्रथमचतुर्थयोरन्तादी नमस्यन्तीति द्वितीयतृतीययोर्भवान्यत इति च तृतीयचतुर्थयोराद्यन्तौ च स्थूलावृत्त्या व्याप्ताविति अनावृत्तभागाभावाच्छोके स्थूलव्यपेतमस्थानयमकमिदम् // श्लोक एव सूक्ष्ममव्यपेतं यथा'यामानीतानीतायामा लोकाधीराधीरालोका / सेनासन्नासन्ना सेनासारं हत्वाह त्वा सारम् // 135 // ' अत्र यद्यपि यामायामेत्यादौ व्यपेतमाद्यन्तयमकं नीतानीतेत्यादौ च मध्ययमकमव्यपेतं विद्यते, तथापि मण्डूकप्लुत्या गतप्रत्यागतेयतेश्च नैतदुल्लिखति अपि तु श्लोकोऽपि द्वाभ्यां द्वाभ्यामक्षराभ्यां सूक्ष्मवृत्त्या व्याप्त इव लक्ष्यते / तेनास्थानयमकमिदमादिमध्यान्तानामभावात्सूक्ष्मावृत्तेः सूक्ष्मव्यपेतमुच्यते // यामेति / मानिभिरिता संगता / यद्वा यामेन प्रहरमात्रेणानीता प्रापिता / शञ्जित्वेत्यर्थः / आनीतः प्रापित आयामो वृद्धिर्यस्याः सा तथा / पालनेन लोकानामाधिमीरयति क्षिपतीति लोकाधीराधीरैरप्राप्तसमरसंभ्रमैरालोक्यत इति धीरालोका / सह इना सेनान्या वर्तत इति सेना, असन्ना अवसादरहिता एवंभूता या सेना सा आसना निकटवर्तिनी सती आरमरि समूहं हत्वा त्वा त्वां सारं कार्यसिद्धिं आह ब्रवीति / ननु यामा यामा, लोकालोकेत्यादिकमाद्यन्तयोर्नीतानीतेत्यादिकं तु पदचतुष्टय स्थापि मध्य इति व्यपेतम् , आद्यन्तव्यपेतयमक तु मध्ययमकमिति स्थानयमकमेवेदम् / संकरोऽपि न पृथग् यमकतां प्रयोजयतीत्यत आह-अत्र यद्यपीति / यामेत्यादिकमादावनुसंधाय वर्णचतुष्कव्यवधिना पादान्तेऽनुसंधीयमानं मण्डूकपतिं प्रयोजयतीति न तथा सोल्लेखम् / यामानीतेत्यादिस्थूलचतुष्कप्रत्यागतेन नीतायामेत्यादिनात्यन्तमुद्भटेन यमकच्छाया तिरोधीयत इति च न सोल्लेखम् / मध्यादिकमव्यपेतं सोल्लेखमित्यपि न वाच्यम् / यामानीतेत्यादिबन्धच्छायार्थकयतिकरणेनानुल्लेखत्वात् / श्लोकस्तु द्वाभ्यां द्वाभ्यामावृत्तिभ्यां व्याप्त इति समुदायसोल्लेखतैव / तदिदमुक्तं मण्डूकप्लुत्या गतप्रत्यागतेयतेश्चेति मध्ये यतिकृतो व्यवायो बोद्धव्यः / अत्रापि वृत्तौचित्यमनुसरणीयम् //