________________ 214 काव्यमाला। मकरन्दा / अत एव मत्ता नमन्ति तामरसानि यस्याः सकाशात्सा तथा / भरनमितपद्मकुहरप्रवेशान्मधुरससेवया च भ्रमरमालया खेदो नाधिगतः / अत्र द्वितीयच. तुर्थपादयोः 'रविं दधाने रविन्दधाने' इति, 'रसा नमत्ता रसा नमत्ता' इति द्वाभ्यामेव वृत्तिभ्यां व्याप्तत्वादाद्यादिविभागासंभवे अस्थानयमकमेवेदम् / व्यपेतं तु कथं भवतीत्यत आह—मा भूदिति // पाद एव सूक्ष्मव्यपेतं यथा'करेणुः प्रस्थितोऽनेको रेणुर्घण्टाः सहस्रशः / करेऽणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ // 133 // ' अत्र विषमपादयोः करेणुः करेऽणुरित्यादावावृत्तम् / समपादयोस्तु रेणुरेणुरिति / तत्तु खापेक्षया न मध्यमन्यापेक्षया नादिरित्यस्थानयमकमिदं सूक्ष्मव्यपेतमुच्यते // करेति / करेणुर्हस्ती प्रस्थितश्चलितस्तेन घण्टा रेणुरशब्दायन्त / सहस्रश इति क्रियाविशेषणम् / स्थूलहस्तेऽणुः सीत्कारविकीर्णतया परमाणुसाद्धतः / तेन शीकरण / ननु विषमपादयोराद्यक्षरेण विनाकरणेन मध्ये समपादयोः पुनरादावेव रेणुरित्यावृत्तिरस्ति तत्कथमस्थानयमकमिदमित्यत आह-तत्त्विति / अन्तो वृत्तैरसंभावितत्वादादौ मध्ये वा सा वाच्या / न चेयमपि संभवति / रेणुरेणुरिति शब्दभागमपेक्ष्य प्रवृत्तायामावृत्तौ तद्विरहात् // श्लोके स्थूलव्यपेतं यथा 'जयन्ति ते सदा देहं नमस्यन्ति जयन्ति ते / ___ भवान्यतो नमस्यन्ति सदादेहं भवान्यतः // 134 // अत्र स्थूलव्यपेतावृत्तिचतुष्टयेन श्लोकोऽपि व्याप्त इत्यादिमध्यान्ताभावादस्थानयमकमिदं स्थूलव्यपेतमुच्यते // हे जयन्ति, ये तव देहं दुर्गातारादिरूपेण प्रपश्चमानां मूर्ति सदा नमस्यन्ति ते जयन्ति सर्वोत्कर्षेण वर्तन्ते / यतस्त एव भवान्संसारसरणिमस्यन्ति क्षिपन्ति / भवात्परमेश्वरात् अन्यता भेदस्तेनोनमतः श्रेयस आदानं ग्रहणं यत्र तादृशी ईहा चेष्टा यत्रेति द्वयमसनक्रियाविशेषणम् / अत्र जयन्ति ते इति प्रथमद्वितीययोराद्यन्ती