________________ 2 परिच्छेदः / ] सरखतीकण्ठाभरणम् / 213 फाठादियमकयोराद्यन्तयमकयोश्चाव्यपेतादिमध्यान्तयमकता प्रकाशते / यतो द्वितीयचतुर्थपादयोरादिमध्यान्तयमकमेव मध्ययमकभूमिकामवगाहते। अत्रापि वृत्तौचिती मवेषणीया। तदेतद्विवरणे व्यक्तमेवेति // : तदेव खान्यभेदोच्छेदि सूक्ष्मं यथा'सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर्नदैर्वृतममुम् / महाफणवतोऽवतो रसपरा परास्तवसुधा सुधाधिवसति // 131 // अत्र पादान्तादिषु व्यपेतं यदा मध्येष्वव्यपेतं तदुभयमपि पादान्तादिसंहितायामव्यपेतमभिन्नजातीयं जायते / न च प्राचीनां मध्ययमकतां जहातीत्यस्थानयमकमिदं सूक्ष्मावृत्तेरन्यतो भेदेन खभेदानुच्छेदि सूक्ष्माव्यपेतमुच्यते / उभयमपि चैतदेवंविधेष्वेव छन्दःसु द्रष्टव्यम् // सनाकेति / नाकवनिताः स्वर्गस्त्रियस्ताभिः सहितम्, यतो नितम्बे खच्छन्दविहरणोचिते रुचिरं मनोज्ञम्, सुनिनदैः शोभनशब्दैर्महाफणवान् वासुकिरवतो रक्षतो रसपरा रसनीयेषु श्रेष्ठा / परास्तवसुधा त्यक्तभूभागा। सुधा पीयूषम् / अत्र प्रतिपादं नितं नितमित्यादिकमव्यपेतम् / संधिषु च विरतिपाठे चिरं चिरमित्यादि व्यपेतं प्रतीयते / तत्र संदंशे क्रियमाणे व्यपेतं निवर्तते / अव्यपेतं तु मध्ययमकमवतिष्ठत एव / तत्सर्वमिदमव्यपेतमेव जायते / अत्रापि वृत्तचिती पूर्ववदेव शरणमित्युपसंहारे दर्शयति-उभयमपि चैतदिति / स्थूलसूक्ष्मभावेन संधियमकमुभयम् // पादे स्थूलव्यपेतं यथा'अखिद्यतासन्नमुदप्रतापं रविं दधानेऽप्यरविन्दधाने / भृङ्गावलियस्य तटे निपीतरसा नमत्तामरसा न मत्ता // 132 // अत्र मा भूदव्यपेतप्रसङ्ग इत्येकमेवाक्षरं विहाय स्थूलावृत्तिद्वयेन श्लोकपादयोर्व्याप्तत्वादादिमध्यान्तता न संभवतीत्यस्थानयमकमिदं स्थूलव्यपेतमुच्यते // अखिद्यतेति / यस्य गिरेस्तटे रविमादित्यमुदप्रतापं दधानेऽपि भृङ्गावलिधमरमाला नाखिद्यत / यतोऽरविन्दधाने पद्मानां निधानभूते निपीतरसा आखादित..