________________ 212 काव्यमाला। . यथैव च वृत्तौचितीवशात्सौभाग्यमुन्मिषति, तेन व्यपेतबाधादव्यपेतपुरस्कारस्तदिदमाह-अत्रेत्यादि / संदंशः संधानम् // अन्यभेदानुच्छेदेन सूक्ष्मं यथा'मतां धुनानारमतामकामतामतापलब्धाग्रिमतानुलोमता / मतावयत्युत्तमताविलोमतामताम्यतस्ते समता न वामता // 129 // अत्र व्यपेतानुच्छेदेनैव पादसंधिष्वव्यपेतमुत्पद्यते इत्यस्थानयमकमिदं सूक्ष्म वृत्तेः संधिसूक्ष्माव्यपेतमुच्यते // मतां संमतामारमतां योगिनामकामतां वीतरागतां धुनानाधःकुर्वाणा / अतापोऽनायासस्तेन लब्धेऽग्रिमतानुलोमते श्रेष्ठतानुकूल्ये यया सा / अतएवोत्तमताया विलोमतामतिरेकमयती न गच्छन्ती ईदृशी तवाताम्यतः संसारखेदेनाबाध्यमानस्य मतौ समता न तु वामता वैषम्यमिति / अत्र प्रतिपादमादिमध्यान्तेषु व्यपेतयमकमुपलभ्यते / संधिषु च संदंशपाठादस्थानयमकव्यपेतं च / न च पूर्वोपलब्धं बाध्यते / न वा संधी विरतिरिति प्रसङ्गः संगच्छते / तेन व्यपेतानुच्छेदकमेतदव्यपेतम् / अत्रापि वृत्तौचिती सर्वखायते // , खभेदे पूर्वभेदानुच्छेदेन स्थूलं यथा'सतमाः सतमालो यः पारापारायतः स दावोऽदावः / लोकालोकानुकृतिः सह्यः सह्ययमनभ्रकूटैः कूटैः // 130 // ' अत्र विषमपादयोः समपादावन्तेऽवतिष्ठमानावादियमकाद्यन्तयमकयोरादिमध्यान्तयमकतामापादयन्तः पारापारेति सह्यः सह्य इत्यावृत्ती स्थूले एवादिमध्ययमकव्यपदेशं च लभेते इत्यस्थानयमकमिदम् / खभेदे पूर्वभेदानुच्छेदि स्थूलाव्यपेतमुच्यते // सतमेति / तमोऽत्र गहनता तया सतमाः सान्धकारम् / पारा नाम नदी तस्याः पारे आयतो विस्तीर्णो दावो वनं तद्बहुलत्वाददावो वनवह्निप्रभावरहितो लोकालोकश्चक्रवालाख्यः पर्वतस्तदनुकृतिस्तत्सदृशो यः सोऽयं सह्यनामा गिरिरभ्रकूटशून्यैः कूटैः शृङ्गैर्लक्षितः / हिशब्दो वाक्यालंकार / अत्र प्रथमतृतीययोरादौ द्वितीयचतुर्थयोराद्यन्तमोळपेतयमकमेव वर्तते / तदनुच्छेदेनैव संदंश