________________ 2 परिच्छेदः / ] सरखतीकण्ठाभरणम् / 211 शशानां च ललनं क्रीडनं यत्र सा / नौ आवयोरबन्धुं वैरिणं धुनाना नाशयन्ती हि निश्चितं मम हितं तनोति सा / अविद्यमानमाननं मुखं यस्य सः / मुखं विनैव जायमान इत्यर्थः / ईदृशो यः खस्वनः शब्दस्तत्र अनाः प्राणा यस्यां सा। उदकशब्दवतीत्यर्थः // विविधेति / विविधानि धववनानि यस्यां सा तथा / धवो विटखदिरः। नागान् सर्पान् हस्तिनो वा गृध्यन्त्यभिलषन्तीति नागगर्धाः / अर्द्धा उपचिता नानावयो विचित्राः पक्षिणस्तैर्विततं व्याप्तं गगनं यस्यां सा तथा / कल्लोलपरम्पराभिरनामं नमनशून्यम् / मजन्तः स्नान्तो जना यस्यां सा / अना स्त्रीरूपा / रुरूणां शशानां च ललनमुत्फालो यस्यां सा तथाभूता / नौ आवयोरबन्धुं शत्रु धुनाना क्षिपन्ती / हरिप्रबोधे बलभद्रस्य कृष्णं प्रत्युक्तिः / यस्मान्मम हिततना हितं तनोति / अनाननो मुखशून्यः यः ख आत्मा तेन खनाना शब्दायमाना। शीले चानश् / 'अनित्यमागमशासनम्' इति मुगभावः / यदि वा अनाननो मुखं विना कृतः स्वकीयः खनो यस्याः सा / अनितीत्यना प्राणयुक्ता / अन्तर्णीतेवार्थ चैतत् / वर्णद्वयपर्यन्तमावृत्तिः सूक्ष्मता / सैवैकवर्णगोचरा सूक्ष्मतरा // पादसंधावन्यभेदोच्छेदेन स्थूलं यथा'उपोढरागाप्यबला मदेन सा मदेनसा मन्युरसेन योजिता / न योजितात्मानमनङ्गतापितां गतापि तापाय ममास नेयते // 128 // ' अत्रान्तादिसंदंशादव्यपेतं प्रवर्तते / व्यपेतं तु पादसंधिषु निवर्तत इत्यस्थानयमका मद स्थूलावृत्तेः, संधिस्थूलाव्यपेतमुच्यते // पादसंधाविति / 'खभेदे चान्यभेदे च' इत्यत्र व्यपेताव्यपेतयोः स्वत्वमन्यत्वं च व्याख्येयं प्रकरणात् / तत्त्वे प्रसङ्गे च यथासंभवं सप्तमी योजनीया। मदेन प्राप्तरागापि तत एव मन्मथोन्मादेन तापिता उत्तापं गतापि यदात्मानमबला न योजितवती तन्नूनं मदेनसा मदीयदुरितेन भूयोऽपि मानरसं प्रापिता स्यात् / अत एवेयते वक्तुमशक्याय संतापाय नासेति काक्का तापप्रकर्षभणनम् / योजितेति / योजयतेर्गत्यर्थत्वमाश्रित्य कर्तरि क्तः / 'गत्याकर्मक-' इत्यादौ चकारस्यानुक्तसमुच्चयार्थत्वाद्वा / अत्र प्रथमद्वितीययोस्तृतीयचतुर्थयोश्चान्तरतो विच्छिद्य पाठे क्रियमाणे संधिषु व्यपेतप्रसङ्गः स्यात् / निरन्तरपठितौ तु स निवर्तते /