________________ 210 काव्यमाला। श्लोके स्थूलाव्यपेतं यथा'नगजा न गजा दयिता दयिता विगतं विगतं ललितं ललितम् / प्रमदाप्रमदामहता महतामरणं मरणं समयात्समयात् // 126 // अत्रावृत्त्यष्टकेन श्लोकोऽपि व्याप्त इत्यस्थानयमकमिदं श्लोके स्थूलाव्यपेतमुच्यते // नगजाः पर्वतजाः / दयिता वल्लभाः / एवंविधा अपि गजा हस्तिनो न दयिता न रक्षिताः / वीनां हंसप्रभृतीनां पक्षिणां गतं चक्रमणं विगतमपगतम् / ललितं विलसितम् / ललितं भ्रष्टम् / प्रमदा कान्ता / अप्रमदा हर्षशून्या / आमश्चित्तव्यथारूपो रोगस्तेन हता / महतां प्रकर्षशालिनाम् / अरणं सङ्ग्रामवर्जितम् / मरणं विनाशः / समयादैवात् / समयात्संगतमासीत् // , श्लोक एव सूक्ष्माव्यपेतं यथा 'विविधधववना नागगर्धर्द्धनाना विविततगगनानानाममज्जज्जनाना / रुरुशशललनाना नावबन्धुन्धुनांना मम हि हिततनानानानन खखनाना / / 127 // ' अत्र सूक्ष्मतराभिरष्टाविंशत्यावृत्तिभिः श्लोको व्याप्त इत्यस्थानयमकमिदं श्लोके सूक्ष्माव्यपेतमुच्यते // बलभद्रं प्रति कृष्णवाक्यं समुद्रतीरभूवर्णनपरम् / विविधानि धवानां तरुभेदानां वनानि यस्यां सा / नागेषु सर्पेषु गर्धनाभिलाषेण बुभुक्षया ऋद्धैः समृद्धैर्नानाविधैविभिः पक्षिभिर्विततं व्याप्तं गगनं यस्यां सा / अनामेन अनमनेन मज्जन्तो जना यस्यां सा / बहूदकेत्यर्थः / यद्वा अस्य विष्णोर्नाम निमज्जन्तः / तत्परा इति यावत् / तादृशा जना यस्यां सा / अविद्यमाना नरोऽर्वाचीना मनुष्या यस्यां सा / समासान्तविधेरनित्यत्वात् 'नातश्च' इति न कम् / यद्वा / अविद्यमान ओ विष्णुयेस्यां सा / यद्वा / अनामनि विष्णुनामनि मजयस्तत्परेभ्यो जातं नानं यस्यां सा। नं ज्ञानम् / तत्त्वज्ञानमिति यावत् / न नं अनं न अनं नानम् / रुरूणां 1. एतत्कोष्टकान्तर्गतपाठः काशीमुद्रितपुस्तके प्रकाशकप्रमादान्मूले पतित उपलभ्यते.