________________ 2 परिच्छेदः / सरखतीकण्ठाभरणम् / 209 व्यपेतमिति / द्वाभ्यामप्यन्वीयते / तत्प्रथमं पादश्लोकतया द्विविधमित्याहपादेश्लोके चेति / पादसंधौ च यद्बध्यते तत्स्वभेदे चान्यभेदे च स्थूलं सूक्ष्म च भवतीत्यर्थः / एतद्यथास्थानं विवरिष्यते—स्थूलं सूक्ष्मं चेति पूर्वेणापि संबध्यते / बहुवर्णावृत्ति स्थूलम् , अबहुवर्णावृत्ति सूक्ष्मम् // * अत्र पादे स्थूलाव्यपेतं यथा'वीनां वृन्दं चैतत्कूटे समरुति सुतरुणि समरुति सुतरुणि / ' चित्तं वा तेन क्रोडेऽस्मिन्सुरमणिगुणरुचि सुरमणि गुणरुचि 124 // ' अत्र स्थूलेनैवावृत्तिद्वयेन श्लोकपादयोाप्तत्वादादिमध्यान्तता न संभवतीत्यस्थानयमकमिदं स्थूलाव्यपेतमुच्यते // वीनां पक्षिणां वृन्दम् / कूटे शृङ्गे / समरुति मारुतसंहिते / सुतरुणि शोभनवृक्षे / कूटविशेषणद्वयमिदम् / समरुति समानकूजिते। सुतरुणीति प्रियासंबोधनम् / वाशब्द इवार्थे / सुरमणीनां देवमणीनां गुणेन दाम्ना रोचते शोभत इति क्किप् / तस्मिन्क्रोडे / सुरमणीति संबोधनम् / गुणेषु रुचिर्यस्य तद्गुणरुचि चित्तम् / अत्र समरुति सुतरुणि सुरमणि गुणरुचीति द्वितीयचतुर्थपादयोर्वर्णाष्टकावृत्तिद्वयमिति पादव्यापकमव्यपेतमुच्यते // पाद एव सूक्ष्माव्यपेतं यथा- 'स्वस्थः शैले पश्यास्तेऽसौ रुरुरुरुरतिरतितनुतनु मतिमति / लोको यहृदैत्यानीकं गुरु गुरुमयि मयि तरितरि सतिसति // 125 // ' अत्र पुनः सूक्ष्मेणावृत्त्यष्टकेन श्लोकपादौ व्याप्ताविति अस्थानयमकमिदं सूक्ष्माव्यपेतमुच्यते // रुरुर्बहुशृङ्गो मृगः / उरुरतिरुपचितप्रीतिः अतितनुरतिकृशा तनुर्यस्या इति संबोधनहवः / मतिमति मतिरुचितज्ञानं तद्वतीत्यपि संबोधनम् / पश्यति वाक्यार्थकर्मकम् / गुरु विपुलम् / गुरुः शुक्रः / मयो दैत्यविशेषः / तद्युक्तं तरितरि विजयमाने मथि सति / सतीति संबोधनम् / सती शोभना / यथा मयदैत्यानीकविजये लोकोऽयं मुखमास्ते तथासौ रुरुरिति वाक्यार्थोऽभिमतः / तदिदं वर्णद्वयावृत्त्या सूक्ष्मं न चान्योन्यव्यवहितमव्यवहितमित्यव्यपेतं च भवति / तदेतदेकस्मिन्नपि पादेऽनुक्तद्वयादिपादविकल्पेन च बोद्धव्यम् // 14 स. क.