________________ 208 काव्यमाला। आद्यन्तयमकमादिमध्यान्तयमकं चेहास्थानयमकत्वप्रसङ्गान्न संगच्छते / आदिमध्यान्तयमकानि तु प्रथममेवोदाहृतानि // . . शुचिना कान्तेन / मृदुना कोमलेन / उदितं भाषितम् / लघुना तरलेन / गुरुणा स्तनजघनभारालसेन / व्याजृम्भितेन प्रकटीभूतविस्तारप्रकर्षेण / अत्र तेन तेनेति मध्यान्तयोरावृत्तम् / इहेत्यावृत्त्येकरूपतायामेकस्यादावितरस्यान्ते वर्तमानमेकरूपसंधिपातित्वादस्थानयमकमेव भवति / एवमादिमध्यान्तयमकमपि नात्र संगच्छते तर्हि संधिविनाकृतमुदाहियतामित्यत आह-आदिमध्यान्तेति // . आवृत्त्येकरूपतायामावृत्त्याधिक्ये च मध्ययमकं यथा-- 'सभासु राजन्नसुराहतैर्मुखैर्महीसुराणां वसुराजितैः स्तुताः / न भासुरा यान्ति सुरान्न ते गुणाः प्रजासु सगात्मसु राशितां गताः 123' .. तदेतत्सर्वमपि व्यवहितावृत्तेर्व्यपेतयमकं भवति // __आवृत्त्याधिक्य इति / एकैकस्मिन्पादे तृतीयाद्यावृत्त्या पूर्वमाधिक्यं पादान्तरावृत्तिसरूपतया सारूप्यं चोक्तम् / इह तु सरूपावृत्त्यैवाधिक्यं निरूप्यत इति संकरप्रकारोपलक्षणमिदम् / सभासु जनसमवायेषु / असुराहतैर्मदिरापानपराभूतैः / महीसुराणां ब्राह्मणानाम् / वसुना तेजसा राजितैः शोभितैः / भासुरा दीप्ताः / सुरान् देवान् / न न यान्ति निषेधद्वयेन यान्त्येवेत्यर्थः / रागोऽनुरागखत्प्रधान आत्मा यासां तासु प्रजासु राशितां पुञ्जतां गताः / व्यपेतमुपसंहरतितदेतदिति // नादौ न मध्ये नान्ते यत्संधौ वा यत्प्रकाशते / अव्यपेतव्यपेतं तदस्थानयमकं विदुः // 63 // पादे श्लोके च तत्प्रायः पादसंधौ च बध्यते / खभेदे चान्यभेदे च स्थूलं सूक्ष्मं च सूरिभिः // 64 // क्रमप्राप्तमस्थानयमकं लक्षयति-नादाविति / आदावेवेत्यादिवियमेन स्थानयमकमुक्तं तदभावे त्वस्थानयमकं भवति / तत्किमाद्यादिस्थानमिदं नाश्रयत एव / नेत्याह-संधौ वेति / संधौ पादसंदंशे एकस्यादिपरस्यान्त इति / नेदं स्थानयमकं तद्धि प्रतिपादं स्थाननियमेन निरूप्यत इत्युक्तप्रायम् / अव्यपेत