________________ 2 परिच्छेदः / ] सरखतीकण्ठाभरणम् / 207 अन्तयमकं यथा 'यस्याहुरतिगम्भीरगलदप्रतिमङ्गलम् / - स वः करोतु निःसङ्गमुदयं प्रति मङ्गलम् // 119 // गम्भीरो मांसलः / गलः कण्ठः। मङ्गलं कल्याणम् / निःसङ्गमप्रत्यूहम् / उदयः संयत्तं प्रति // एवमावृत्त्याधिक्येऽपि यथा'अवसितं हसितं प्रसितं मुदा विलसितं हसितं स्मरभासितम् / न समदाः प्रमदा हतसंमदाः पुरहितं विहितं न समीहितम् 120' - अवसितं समाप्तम् / मुदा प्रसितमनुबद्धम् / विलसितं ह्रसितं भ्रष्टम् / स्मरेण भासितं शोभितम् / संमदो हर्षः / अत्र प्रतिपादं सितं सितमित्यादि द्वाभ्यामेव यमकं नियूंढम् / तृतीयं तु सितमित्यादिकमाधिक्यमेव प्रयोजयति, तच्च सर्व मनावृत्ति व्यवहितमिति व्यपेतयमकमेव भवति // . . आवृत्त्येकरूपतायामपि / तत्रादिमध्ययमकं यथा'सारयन्तमुरसा रमयन्ती सारभूतमुरुसारधरातम् / सारसानुकृतसारसकाञ्चि सा रसायनमसारमवैति // 121 // ' --- सारयन्तमात्मसमीपमानयन्तम् / उरसा घनतरस्तनाढ्येन / सारभूतं जीवितसर्वखतामापन्नम् / उरुर्महान् / सार उत्कर्षः / अनुकृतसारसा सारसकूजितसंवादिनी। सारसा सशब्दा काञ्चिर्मेखला यस्याः सा तथा / सारसानुकृतेति 'जातिकालसुखादिभ्यः परा निष्ठा वक्तव्या' इति निष्ठायाः परनिपातः / रसायनं सर्वोपद्रवहरं भेषजम् // _ मध्यान्तयमकं यथा 'लीलास्मितेन शुचिना मृदुनोदितेन व्यालोकितेन लघुना गुरुणा गतेन / व्याजृम्भितेन जघनेन च दर्शितेन __ सा हन्ति तेन गलितं मम जीवितेन // 122 // ' :