________________ 206 काव्यमाला / मध्ययमकं पुनरनुल्लेखीति परिह्रियते // रमणं वल्लभं मुदा हर्षेणान्वीतं संगतं कर्तुं क्षमा इत्यन्वयः / उदारमुत्कृष्टम् / मदेन भ्रमन्ती श्यामान्ता / अदभ्रं विपुलम् / अत्र यद्यपि चतुर्पु पादेषु यमकमस्ति, तथापि द्वयोर्द्वयोरेवावृत्तिः पर्यवस्यतीत्युदाहरणद्वयमिदं द्रष्टव्यम् / एवं प्रथमतृतीययोः प्रथमचतुर्थयोर्द्वितीयतृतीययोर्द्वितीयचतुर्थयोश्च व्यपेतमादियमकमवसेयम् / अनुल्लेखो व्याख्यात एव // अन्तयमकं यथा'इह मुहुर्मुदितैः कलभै रवः प्रतिदिशं क्रियते कलभैरवः / स्फुरति चानुवनं चमरीचयः कनकरत्नभवां च मरीचयः // 117 // ' कलभाः करिशावकाः / रवः शब्दः / कलो मधुराव्यक्तः / भैरवो भयंकरः / अनुवनमिति वीप्सायामव्ययीभावः / चमरी चमरगवी / चयः समूहः / मरीचयः किरणाः / अत्रापि पूर्ववदेव द्विपादयमकं व्याख्येयमिति // एकपादयमकमिह शुद्धं न संभवति, तस्य स्थाने द्विपादयमकमेवो. दाहियते / तदादियमकं यथा 'मधुरेणदृशां मानं मधुरेण सुगन्धिना / सहकारोद्गमेनैव शब्दशेषं करिष्यति // 118 // इहापि मध्ययमकमनुल्लेखीति परिहियते। . ' एकपादयमकमिति / नैरन्तर्येणावृत्तावव्यपेतत्वम् / सान्तरत्वे त्वादिमध्यादिभावप्रसङ्ग इति शुद्धं न भवति तत्किमनुदाहरणीयमेवैतदित आह-तस्येति / आवृत्तिरेकत्रैव संभवतीत्येकपादगोचरता / सा तु प्रतियोगितया द्वितीयमपेक्षत इति पादान्तरखीकार इति कथंचित्प्रकृतिगणनासमाधानमेतत् / मधुश्चैत्रः / अनेन पूर्वावयवेन वसन्तो लक्ष्यते / एणदृशां हरिणलोचनानाम् / मधुरेण मधुराखादेन / सहकारोद्गमेनैवेत्येवकारेणासतामतीव तावद्विख्यातप्रभावातिशयाः पिकपञ्चमादयः / सहकारप्रथमोद्भेदमात्रेणैव तु मानिनीमानग्रहवार्ता निरवशेषितेत्युद्दीपनताप्रकर्षो ध्वन्यते॥