________________ 2 परिच्छेदः / ] सरखतीकण्ठाभरणम् / 205 कदम्बः / कदम्बवनधूननेन सर्वतः सौरभसंचारोपपत्तिः / अत्र विहगा इत्यादिकं प्रतिपादमाद्यन्तयोरनावृत्तवर्णषट्कव्यवहितमेवावर्तते // मध्यान्तयमकं यथा 'मितमवददुदारं तां हनूमान्मुदारं रघुवृषभसकाशं देवि यामि प्रकाशम् / तव विदितविषादो दृष्टकृत्स्नामिषादः श्रियमनिशमवन्तं पर्वतं माल्यवन्तम् // 113 // मितमल्पाक्षरमरमत्यर्थमुदारमल्पाक्षरव्यञ्जकं मुदा हर्षेण रघुवृषभो रामस्तस्य सकाशो वासभूमिस्तया पुरस्कृतः / आमिषादा राक्षसाः / अत्र दारमित्यादि प्रतिपादं मध्यान्तयोरेवानावृत्तवर्णपञ्चकव्यपेतमावर्तते // . आदिमध्यान्तयमकं यथा- . 'समं स सैन्येन समन्ततः समं पुरंदरश्रीः पुरमुच्चगोपुरम् / मदालसां तां प्रमदां सुसंमदां ययौ निधायाक्षययौवना ययौ // 11 // समं सह। समं सश्रीकम् / संमदो हर्षः / ययुरश्वमेधीयोऽश्वः / अत्र प्रतिपादं सममित्यादिकमादिमध्यान्तेषु यथोक्तानावृत्तवर्णव्यवहितमावर्तन्ते // त्रिपादयमकेषु व्यपेतमादियमकं यथा 'करेण ते रणेवन्तकरेण द्विषतां हताः / करेणवः क्षरद्रक्ता भान्ति संध्याघना इव // 115 // .. अस्यापि नातिप्रचुरः प्रयोग इति विशेषभेदा नोदाह्रियन्ते // द्विषतां शत्रूणामन्तकरेण विनाशकारिणा / करेण हस्तेन / करेणवो हस्तिनः / एवं द्वितीयादिपादगोचरं मध्यादियमकं च किमिति नोदाहियत इत्यत आहअस्वापीति // द्विपादयमकेषु व्यपेतमादियमकं यथा 'मुदा रमणमन्वीतमुदारमणिभूषणाः। मदभ्रमशः कर्तुमदभ्रजघनाः क्षमाः // 116 // - 1. 'च्छान्त' ख.