________________ 202 काव्यमाला। - आमर्शनं प्रोञ्छनम् / दलत्कुवलयमिति क्रियाविशेषणम् / तरङ्गाणामितस्ततो वलनेन प्रौढतरकुवलयकलिकास्फुटनजातिः // .. एवमावृत्त्याधिक्येऽप्यव्यपेतमुदाहार्यम् / यथा'वियद्वियदृष्टिपरंपरं परं घनाघनाली रसितासिता सिता / सरःसरस्यः स्वरसारसारसा सभा सभा रात्रिरतारतारता // 10 // आवृत्तिः सकृदावर्तनेनैव निर्वहति तत्किमसकृदावृत्तौ यमकं न भवतीत्यत आह-एवमिति / आवृत्तिसामान्यमधिकमनधिकं वा द्वयमप्यावृत्तिपदेनाभिमतमित्यर्थः / वियदाकाशम् / वियती अपगच्छन्ती वृष्टिपरंपरा यस्मात्तत्तथा / परमुत्कृष्टरमणीयम् / घनाघनाली.मेघपतिः / रसिते स्तनिते आसितावलम्बिता / सिता शुभ्रा / सरांसि च सरस्यश्च सरःसरस्यः / स्वरसारास्तत्कालोन्मिषितकूजितकान्तिप्रधानाः सारसाः पक्षिणो यत्र तास्तथाभूततः / सभा गृहरूपा जलसमुदायो वा / सभाः सदीप्तिः / ताराणां तारता निर्मलताप्रकर्षः किंचिद्धनरोधसद्भावादीषतारता यस्यां सा तथा // * आवृत्त्येकरूपतायामपि / तत्रादियमकं यथा 'याम यामत्रयाधीनायामया मरणं निशा / यामयाम धियाखाया मया मथितैव सा // 105 // आवृत्तीति / यज्जातीयमाद्यपादे. पदमावृत्तं तज्जातीयमेव द्वितीयादिपादेष्वपि यथास्थानमावर्तत इति प्रकारान्तरमप्यावृत्तिपदेनैव संगृहीतमित्यर्थः / यामत्रयाधीनायामया प्रहरत्रयविश्रान्तियावद्दीर्घताप्रकारया निशा रात्र्या मरणं यामेति वियोगखिन्नस्य प्रार्थना / किमित्येवममङ्गलमाशास्यत इत्याह-यामिति / धिया बुद्ध्या यामयां जीवितसर्वखाभिमानगोचरतामनैषं सा अनया कल्पकोटिशतायमानयामया रजन्या असूनां प्राणानामार्तिः पीडा तया द्वारभूतया प्रायेण मथितैव भविष्यतीति सुकुमारतरकान्ताजीवितानध्यवसायोक्तिरियम् / अत्र यामेत्येव पदं पादचतुष्टयेऽप्यावृत्तम् / एवमुत्तरत्र / / ... तथैव मध्ययमकं यथा 'स्थिरायते यतेन्द्रियो न हीयते यतेर्भवान् / अमायतेयतेऽप्यभूत्सुखाय तेऽयते श्रयम् // 106 // ' 1. 'नमायते' क.