________________ * 2 परिच्छेदः / सरखतीकण्ठाभरणम् / 206 एवं त्रिपादयमकप्रपञ्चोऽपि भवतीत्याह-त्रिपादयमकेष्विति / विशदा धवला / विशन्त आमत्ताः सारसा यत्र तस्मिन् / सारसं सरःसंबन्धि / मन्मथोन्माथदायितया कुत्सितं रुतं कुरुतम् / मध्यान्तादीनि त्रिपादयमकानि किमिति नोदाहृतानीत्यत आह–नास्येति // द्विपादयमकेष्वव्यपेतमादियमकं यथा- . . _ 'करोति सहकारस्य कलिकोत्कलिकोत्तरम् / मन्मनो मन्मनोऽप्येष मत्तकोकिलनिःखनः // 100 // " उत्कलिका उत्कण्ठा तदुत्तरं तटं कूलम् / मन्मनोऽव्यक्तमधुरः / मन्मनो मदीयं मनः // . तदेव मध्ययमकं यथा'तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषनिणि। गुणवदाश्रयलब्धगुणोदये मलिनिमालिनि माधवयोषिताम् // 10 // अलिनि यो मलिनिमा कजलाभत्वं स माधवयोषितां यादवस्त्रीणां विलोचना तारकास्तुलयति स्मेति संबन्धः // अन्तयमकं यथा'खण्डिताशंसया तेषां पराङ्मुखतया तया / आविवेश कृपा केतूकृतोच्चैर्वानरं नरम् // 102 // " एवमादिमध्यान्यपि द्रष्टव्यानि / एकपादयमकेष्वव्यपेतमायन्तयोरनुल्लेखीति नोदाहियते // खण्डितेति / केतूकृतो ध्वजतां नीतः / उच्चैर्वानरो हनूमान् / नरोऽर्जुनः // आद्यन्तयोरनुल्लेखीति / महाकविप्रयोगेषु विशेषशोभाकरतया प्रसिद्धरभावोऽनुल्लेखो न त्वसंभव एव / एवं मध्ययमकं त्वित्यादौ बोद्धव्यम् // मध्ययमकं तु चतुर्थपाद एवोल्लिखति / यथा'विलुलितालकसंहतिरामृशन्मृगदृशां श्रमवारि ललाटजम् / तनुतरगततीः सरसां दलत्कुवलयं वलय मरुदाववौ // 103 //