________________ 200 काव्यमाला। मध्यान्तयमकं यथा'उदयि ते दयिते जघनं धनं स्तनवती नवतीर्थतनुस्तनुः / / सुमनसामनसा सदृशौ दृशौ धुकुरुमे कुरु मेऽभिमुखं मुखम् // 9 // उदय उद्भवो विस्तारवत्त्वरूपस्तद्युक्तमुदयि / घनं मांसलम् / नवेन तीर्थन रजसा तनूकृता / 'स्त्रीरजःशास्त्रयोस्तीर्थम्' / सुमनसां कुसुमानामनः शकटं तेन सदृशौ / 'सुमनसां मनसाम्' इति पाठे सुमनसः सहृदयास्तन्मनसां सदृशौ संवादिन्यौ / द्योश्च कुश्च धुकू द्यावापृथिव्यौ तयोरुमा लवणाकरो लावण्यविश्रान्तिस्थानत्वात् // आदिमध्यान्तयमकं यथा'सीमासी मानभूमिः फणिबलवलनोद्भाविराजीविराजी हारी हारीतवद्भिः परिसरसरणावस्तमालैस्तमालैः / देवादेवाप्तरक्षःकृतभव भवतोऽग्रे न दीनो नदीनो मुक्तामुक्ताच्छरत्नः सितरुचिरुचिरोल्लासमुद्रः समुद्रः // 98 // ' सीमा मर्यादा तस्यामासनशीलः / मानं परिमाणातिशयः मानः पूजा वा, तद्भूमिः / फणिबलं भुजङ्गसमुदायस्तस्य यद्वलनं तेनोद्भाविनी या राजी रेखा तया विराजनशीलः / हारीताः पक्षिविशेषास्तद्युक्तैः / परिसरसरणिस्तीरमार्गस्तत्रास्तमालैः क्षिप्तमालासन्निवेशैः / खण्डरूपतामापन्नैरिति यावत् / ईदृशैस्तमालैः हारी मनोहर इति संबन्धः / देवादेवाः देवासुरास्तैरमृतलाभेनान्तरवस्थानेन चाप्ता रक्षा यस्मात्स तथा कृतभवः संपादितोद्भवः / नदीनामिनः खामी समुद्रो भवतोऽग्रे न दीनः ? काक्का दीन एव / मुक्ताभिरमुक्तान्यच्छानि रत्नानि यत्र स तथा। सितरुचिश्वन्द्रस्तेन रुचिरा मनोहरा उल्लासमुद्रा वृद्धिकाष्ठा यस्य / तदेतेषामुदाहरणानां चतुर्वपि पादेषु यथोक्तं यमकमस्तीति चतुष्पादयमकप्रपञ्चोऽयम् // त्रिपादयमकेष्वव्यपेतमादियमकं यथा'विशदा विशदामत्तसारसे सारसे जले। कुरुते कुरुते नेयं हंसी मामन्तकामिषम् // 99 // नास्य चतुरः प्रयोग इति शेषभेदा नोदाह्रियन्ते //