________________ 199 2 परिच्छेदः।] सरखंतीकण्ठाभरणम् / तदेव मध्ययमकं यथा'दधतमाकरिभिः करिभिः क्षतैः समवतारसमैरसमैस्तटैः। .. विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः // 93 // ' आकरिभिः प्रशस्ताकरयुक्तैः करिभिः परिणतिक्रीडासक्तैः / विविधेभ्यः कामेभ्यो हिताः / महितं पूजितम् / जवना वेगवतीः // तदेवमन्त्ययमकं यथा'व्यथितसिन्धुमनीरशनैः शनैरमरलोकवधूजघनैर्घनैः / फणवताम भितो विततं ततं दयितरम्यलताबकुलैः कुलैः॥९४ // अनीरशनैर्न निर्गता दूरीभूता रशनाः क्षुद्रघण्टिका येभ्यस्तैः काञ्चीगुणयुक्तैः / तेन स्थपुटकर्कशरत्नादिरचनया सिन्धुव्यथापोषः / शनैर्मन्दम् / घनैर्मांसलैः / अभितो विततं सर्वतो विस्तीर्णम् / फणवतां कुलैस्ततं व्याप्तम् / लवङ्गबकुलमालतीसुरभिशीतलतया फणभृत्प्रियत्वम् // आदिमध्ययमकं यथा'घनाघनाभस्य महीमहीयसः सुरासुराणां दयितस्य तस्य सा। धराधराकारगृहा गृहार्थिनो बभूव भूमे गरी गरीयसी // 95 // .. घनाघनो मेघस्तदाभः श्यामः / मही पृथिवी तस्यां महीयान् पूज्यः / धराधरः पर्वतस्तदाकारगृहाः // आद्यन्तयमकं यथाद्रुतं द्रुतं वहिसमागतं गतं महीमहीनद्युतिरोचितं चितम् / . . ..समं समन्तादपगोपुरं पुरं परैः परैरप्यनिराकृतं कृतम् // 96 // वह्निसमागतं सद् द्रुतं विलीनमत एव द्रुतं शीघ्रं महीं गतं पृथिव्यां विस्तीर्य पतितमहीनया धुत्या रोचितं शोभितम् / चितं निबिडेन संनिवेशेन स्थापितम् / समन्तात्सर्वतः समं सलक्ष्मीकमस्थपुटं वा / परैः शत्रुभिः परैः श्रेष्ठेरनिराकृतं यदासीत्तदेव वहिना हेममयं पुरमपगोपुरमपगतद्वारं महीं गतं च कृतमिति . . संबन्धः //