________________ ___काव्यमाला / . . . तदव्यपेतयमकं व्यपेतयमकं तथा / स्थानास्थानविभागाभ्यां पादभेदाच्च भिद्यते // 59 // यत्र पादादिमध्यान्ताः स्थानं तेषूपकल्प्यते / यदव्यपेतमन्यद्वा तत्स्थानयमकं विदुः // 60 // सामान्यतो विभजते-अव्यपेतेति / व्यवायो व्यवधानम् / तदेतदुभयमपि स्थानादिभेदेन त्रिधा भवतीति पूर्वोक्तानुवादपूर्वकमवान्तरविभागमाह-तदिति। पाद आदिमध्यान्ता अर्थादेतेषु विशेषतोऽनुल्लिखनादस्थानयमकमुक्तं भवति / एत-. दपि द्विधा // चतुस्त्रियेकपादेषु यंमकानां विकल्पनाः। आदिमध्यान्तमध्यान्तमध्यान्ताश्च सर्वतः // 61 // चतुरादिपादविकल्पेन विषयतो भिद्यत इत्याह-चतुस्त्रीति / आदिश्च मध्यश्चान्तश्चेति आदिमध्यान्तास्त्रयः शुद्धाः / मध्यान्तौ मध्यादी आद्यन्तौ आदिमध्यान्ताश्चेति मिलित्वा चत्वारः संकीर्णाः / सर्वत इति सार्वविभक्तिकस्तसिः॥ अत्यन्तबहवस्तेषां भेदाः संभेदयोनयः / सुकरा दुष्कराश्चैव दर्यन्ते तत्र केचन / / 62 // -- एवं पादविकल्पानामाद्यादिविकल्पानां च परस्परयोजनेऽन्येऽपि बहवः प्रकारा ग्रन्थगौरवकारिणो भवन्तीत्याह-अत्यन्तेति / न च कठोरनीरसत्वादवश्यवक्तव्या इत्याह-दुष्करा इति / शिष्यव्युत्पत्तये तु कतिपये दर्शनीया इत्याहतत्र केचनेति // . तत्र चतुष्पादयमकेषु अव्यपेतमादियमकं यथा- 'राजीवराजीवशलोलभृङ्ग मुष्णन्तमुष्णं ततिभिस्तरूणाम् / . - कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षोभितमुद्वहन्तम् // 92 // '. राजीवराजी पद्मपतिस्तद्वशा लोलाः सस्पृहा भृङ्गा यत्र तम्। यतस्तृतिभिस्तरूणां पङ्गिभिरुष्णं धर्म मुष्णन्तमपहरन्तम् / कान्तो मनोज्ञोऽलकान्तचूर्णकुन्तलच्छया यासां ताः / यस्माद्रक्षोभी राक्षसैरक्षोभितमधर्षितम् / अन्न प्रथमे पादे पूर्व सार्थकमपरमनर्थकम् / द्वितीयादिषु द्वयमप्यनर्थकम् / एवमन्यत्रापि यथायथमवगन्तव्यम्॥