________________ 2 परिच्छेदः / सरखतीकण्ठाभरणम् / 197 भाषान्यथाकरणेन यथा... 'किं तादेण नरेन्दसेहरसिहालीढग्गपादेण मे किं वा मे ससुरेण वासवसहासीहासणद्धासिणा। ते देसा गिरिणो अ ते वणमही स जेअ मे वल्लहा कोसल्लातणअस्स जत्थ चलने वन्दामि णन्दामि अ॥९०॥ अत्र यदि भाषान्तरेण पठ्यते तदैतच्छौरसेनीभाषया सीतावाक्यं संस्कृतभाषायां सुमन्त्रेण दशरथाय निवेदितम् / तद्यथा___'किं तातेन नरेन्द्रशेखरशिखालीढाप्रपादेन मे किं वा मे श्वशुरेण वासवसभासिंहासनाध्यासिना / ते देशा गिरयश्च ते वनमही सा चैव मे वल्लभा . कौसल्यातनयस्य यत्र चरणौ वन्दामि नन्दामि च // 91 // ' सेयमेवंप्रकारा पठितिः // . भाषामेदेन कथं स्त्रीपुंसवचनता गम्यत इत्यत आह-तदैतच्छौरसेनीति / विभागन्यूनतामाशय यथोक्तप्रकारेण समाधानमभिसंधायाह-सेयमेवंप्रकारा पठितिरिति // .. विभिन्नार्थकरूपाया या वृत्तिवर्णसंहतेः। अव्यपंतव्यपेतात्मा यमकं तनिगद्यते // 58 // अथावृत्त्युपजीविनोऽलंकारा लक्षयितव्याः / तेषां समग्रकाव्यपर्यन्तावृत्तिसमा- . श्रयणाद्यमकं प्रधानमित्याशयेनाह-विभिन्नेति / विभिन्नार्थत्यामेदव्यतिरेकपरम् / तेन द्वयोरेकस्य वा निरर्थकत्वेऽपि यमकमुपगृहीतं भवति / एवमपि 'सरो रसः' इत्यादावतिप्रसङ्ग इत्यत उक्तम्-एकरूपेति / रूपमानुपूर्वी, विभिन्नार्था चासावेकरूपा चेति विग्रहः / विविधधवेत्यादावेकवर्णावृत्तावप्यावृत्तिसमुदाय एव यमकक्रममुल्लिखतीत्यभिसंधाय संहतेरित्युक्तम् / विभिन्नार्थैकरूपाया वर्णसंहतेर्या आवृत्तिः सा यमकमिति व्यवहितेनान्वयः // आवृत्तिर्द्विधा-अनावृत्ता व्यवहिताव्यवहिता चेति /