________________ काव्यमाला। पादान्यथाकरणेन यथा___ 'एकान्ते विजने रात्रावन्तर्वेश्मनि साहसे / न्यासापह्नवने चैव दिव्या संभवति क्रिया // 86 // ' अत्र तृतीयपादस्थाने 'तन्वङ्गी यदि लभ्येत' इति पाठो भवति, तदैतत्परीक्षौपयिकमपि कामौपयिकं भवति // एकान्त इति / साहसे प्रच्छन्नाभिसारलक्षणे प्रकाशात्प्रच्छन्नो गरीयानिति न्यायात् / दिव्या खभोगसोदरा क्रियावलक्षणा // अर्धन्यथाकरणेन यथा 'तत्वावदेव शशिनः स्फुरितं महीयो _यावन्न तिग्मरुचिमण्डलमभ्युदेति / अभ्युद्यते सकलधामनिधौ तु तस्मि निन्दोः सिताम्रशकलस्य च को विशेषः // 87 // ' अत्र यदा मध्यमपादयोः स्थाने 'यावन्न ताः किमपि गौरितरा हसन्ति / ताभिः पुनर्विहसिताननपङ्कजाभिः' इति पठ्यते, तदैतद्वीराअॅक्तिरूपमपि शृङ्गारोक्तिरूपं संपद्यते // गौरितरेति / 'घरूप-'इत्यादिना पूर्वपदह्रखः // . पादत्रयस्य चान्यथाकरणेन यथा'त्यागेन युक्ता दिवमुत्पतन्ति त्यागेन हीना नरकं व्रजन्ति / न त्यागिनां दुष्करमस्ति किंचित्त्यागो हि सर्वव्यसनानि हन्ति / / 88 // ' __ अत्र तुरीयपादमेवोपादाय पादत्रयस्य चान्यथाकरणेन वक्ष्यमाणः पाठो भवति। तदैतत्त्यागप्रशंसार्थमपि त्यागनिन्दार्थ जायते / यथा'त्यागो हि सर्वव्यसनानि हन्तीत्यलीकमेतद्भुवि संप्रतीदम् / जातानि सर्वव्यसनानि तस्यास्त्यागेन मे मुग्धविलोचनायाः॥८९॥' एतेषां च पदाद्यन्यथाकरणानां परस्परसंकरोऽपि भवतीत्यावेदयति //