________________ 2 परिच्छेदः / सरखतीकण्ठाभरणम् / 195 वेति / अपश्यत् शयनभोजनशून्यम् / शयनं शीः, अदनं अत्, निर्झरसंभोगैः निर्झरजलमात्रोपभोगैरप्यपगतं अत एव बलरहितम् / अत्र च यमकेन संसृष्टिरस्य बोद्धव्या / आवृत्तिमादाय यमकमन्यथा भविष्यति // अपरे पुनः पठितिमन्यथा कथयन्ति पदपादा:भाषाणामन्यथाकरणेन यः। पाठः पूर्वोक्तसूक्तस्य पठिति तां प्रचक्षते // 57 // अपरे पुनरिति / अन्यथेत्यतः परमपि शब्दोऽध्याहार्यः / पादाद्यन्यथाकरणेनापि हि प्रकृतमुच्चारणमेव विशिष्यते / यदाह-पूर्वोक्तसूक्तस्येति / अत एव श्लोकान्यथाकरणेन पठितिर्न संभवति। तेन प्रागुक्तभेदैः सह द्वादशप्रकारा पठितिरिति तात्पर्यम् / यद्यपि च पादाद्यन्यथाकरणमपि पदभेदप्रकार एव तथापि न तत्र पूर्वोक्तत्यागः, इह तु तत्परित्यागेन पदान्तरकल्पनमित्येतावान्विशेषः॥ तत्र पदान्यथाकरणं द्विधा-प्रकृतितः, विभक्तितश्च / तत्र प्रकृतितो यथा 'असकलहसितत्वात्क्षालितानीव कात्या ___ मुकुलितनयनत्वाज्ज्ञातकर्णोत्पलानि / पिबतु मधुसुगन्धीन्याननानि प्रियाणां त्वयि विनिहितभारः कुन्तलानामधीशः // 84 // अत्र त्वयीत्यस्य स्थाने मयीति यदा 'पठ्यते, तदैतत्प्रार्थनावाक्यमप्यनुमतिवाक्यं भवति / विभक्तितो यथा'सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् / खबलेन निहन्ति संयुगे नचिरात्पाण्डुसुतः सुयोधनम् // 85 // " अत्र यदा पाण्डुसुतः सुयोधनमित्यस्य स्थाने 'पाण्डुसुतं सुयोधनम्' इति पठ्यते, तदैतदमङ्गलार्थमपि सुयोधने मङ्गलार्थ भवति / / तत्र पदं विभक्त्यन्तं विशेषणविशेष्यभेदेन द्विधा क्रियते इत्याह-पदान्यथाकरणं द्विधेति //