________________ 194 काव्यमाला। [एतावन्मात्रस्तनी एतावन्मात्राभ्यामक्षिपत्राभ्याम् / / एतावन्मात्रावस्था एतावन्मात्रैर्दिवसैः // ] अत्र इयन्मात्रस्तनादीनां तथाभूतहस्ताभिनयैः सह पठनात्तथाविपार्थविशेषो गम्यते // अपदेशोऽप्यभिनयविशेष एव / यथा 'इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् / ' इत्यात्मानमपदिश्य ब्रूते // एद्दहमेत्तेति / अत्र सर्वपदानामर्थान्तरसाधारणतया न तावदभिमतपरिमाणविशेषप्रतीतिरुपजायते, यावदुच्चारणसहकारिभूतप्रसारितकरद्वयकोषप्रसृतिभिदगुलिप्रसारिताङ्गुलीगणनारूपाभिनयप्रतिसंधानं न भवति / तेनाभिनयपठितिरियम् , साक्षादिव वस्तुखरूपबोधिका क्रियाभिमुख्यनयनादभिनय इत्युच्यते / तदिदमाहतथाभूतेत्यादि / अपदेशोऽपीति / आत्मनिर्देशिका क्रियापदेशः / अस्याभिनयविशेषत्वेऽपि कान्तिकरतया पृथगुपादानम् / यावच्च स्वरूपसमुच्चारण विशेषणं नानुसंधीयते न तावच्छ्रीप्राप्तिक्षमयोः कारणविशेषः प्रतीयत इति // कान्त्या यथा 'यस्यारिजातं नृपतेरपश्यदवलम्बनम् / ययौ निर्झरसंभोगैरपश्यदबलं वनम् // 83 // ' अत्रावलम्बनमबलं वनमिति पदे पदद्वये वा द्वितीयचतुर्थस्थानयोn वकारबकारौ तयोरन्तःस्थपवर्गाभ्यां पवर्गान्तःस्थाभ्यां च कान्तिमति पाठेऽर्थभेदो जायते // यस्यारिजातमिति / कान्तिश्छाया सा अप्रतिहतरूपा पदवद्वर्णेषु न संभवतीति श्रुतिरूपा गृह्यते / तथाहि / अवलम्बनमित्यत्र द्वितीयचतुर्थस्थानस्थयोर्वकारबकारयोः क्रमेणान्तःस्थपवर्गभावानुसंधानेऽवलम्बनमित्येकपदतायां त्राणहेतुमपश्यदित्यर्थः प्रतीयते / यदा तु द्वितीयेऽबलं वनमित्यत्र तयोरेव पवर्गान्तः. स्थभावानुसंधानं भवति तदा बलं वनमिति च्छेदेन- पदद्वयसंपत्तौ बलरहितं सद्वनमरण्यं ययावित्यर्थान्तरप्रतीतिरुपजायते / तदिदमुक्तम्-पदे पदद्वये