________________ 2 परिच्छेदः / सरखतीकण्ठाभरणम् / 193 अत्र येन ध्वस्तमनोभवेनेत्यादेर्येन ध्वस्तमनोऽभवेनेत्यादेश्च पदभेदादुमाधवो माधव इत्यर्थद्वयं प्रतीयते / तयोश्च द्वयोरपि प्राधान्येनोपपादनादङ्गाङ्गिभावेन प्रकृताप्रकृतरूपतया चानवस्थानात्परस्परमसंबन्धेनायं श्लेषः / पदभेदेन तु पाठे पर्यायतोऽर्थद्वयप्रतीतेरियं श्लेषोपसर्जना पदभेदपठितिः // येनेति / ध्वस्तमनोभवेन दग्धकामेन बलिजितो नारायणस्य कायः पुरा त्रिपुरदाहव्यतिकरेऽस्त्रीकृतः शरतां नीतः, गङ्गां भागीरथीं दधे, अन्धको दैत्यविशेषस्तस्य क्षयो विनाशः, बर्हिपत्रो मयूरवाहनः कार्तिकेयः, शशिमचन्द्रकलाङ्कितं शिरो विश्वमोहच्छिदुरस्य हर इति स्तुत्यं च नाम, भुजङ्गा एव हारवळयानि यस्य, सर्वदा सर्वकालमिति उमाधवपक्षे। माधवपक्षे तु-येन ध्वस्त विनाशितमनः शकटम् , अभवेन संसारबन्धरहितेन, बलिं जितवान्यः कायः स पूर्व समुद्रमथनावसरेऽमृतगृहयालुदैत्यव्यामोहनाय स्त्रीरूपतां नीतः, अगं गोवर्धनाख्यं गां पृथिवीमेकार्णवममामुद्धतवान् / अन्धका यदुविशेषास्तेषां क्षयो निवासः। बर्हिणो मयूरस्य पत्रं पिच्छं तत्प्रियः 'बर्हिपत्रकृतापीडम्' इति गोपालध्याने गौतमेनाभिधानात् / शशिनं मनातीति क्विप् / शशिमद्राहुस्तस्य शिरोहर इति स्तुत्यं च नाम / भुजङ्गहा गरुडः स इष्टो यस्य / रवे शब्दब्रह्मणि लयो यस्य सः, तथा सर्वदो यावदभिमतप्रद इति / ननु विभिन्नरूपाणां शब्दानामुच्चारणे तन्त्रतया श्लेष एवायं न पठितिरित्यत आह-तयोश्चेति / श्लेषो हि श्लिष्यमाणयोः परस्परसंबन्धे भवति / स च संबन्धो रूपतात्पर्यसंबन्धलक्षणो वा अङ्गाङ्गिभावो वा उपमानोपमेयभावो वा यथाग्रे वक्ष्यते / न चायमेकोऽत्राभिमतः किंत्वेकपरमेबोचारणे पदभेदेनार्थान्तरं गमयतीति पठितिरेवेयम् / एतेन समाध्युक्तिसमासोक्तिभ्यामपि भेद उक्तः / तत्किमुच्चारणतत्रता नास्त्येवेत्यत आह-श्लेषोपसर्जनेति / यत्र हि यस्य प्राधान्येन विवक्षा तत्र तेन व्यपदेशो युक्तः, अत एव विवक्षान्तरेण श्लेषव्यवहारोऽप्यत्र समर्थनीय एव // अभिनयेन यथा'एहहमेत्तत्थणिआ एहमेत्तेहिं अच्छिवत्तेहिम् / एइहमेत्तावत्था एद्दहमेत्तेहिं दिअहेहिम् // 82 // 13 स• क.