________________ / 2 परिच्छेदः। सरखतीकण्ठाभरणम् / 203 आयतिरुत्तरकालविशुद्धिः / यतेन्द्रियो विजितेन्द्रियग्रामः / एवंभूतो भवान्यतेन हीयते / यतितुल्य एव भवतीत्यर्थः / अपिशब्दो भिन्नक्रमः / अमायता मायाशून्यत्वं सापि तव इयते परिच्छेत्तुमशक्याय क्षयं विनाशमयतेऽगच्छते सुखायाभूत् // तदेवान्तयमकं यथा'भवादृशा नाथ न जानते नते रसं विरुद्ध खलु सन्नतेनते। य एव दीनाः शिरसा नतेन ते चरन्त्यलं दैन्यरसेन तेन ते॥१०७॥' तदेतत्सर्वमप्यवहितावृत्तेरव्यपेतयमकं भवति // नतेः कुपितकामिनीप्रसादरूपाया रसो विप्रलम्भपृष्टभावी मधुरतरः संभोगः किमिति तादृशा रसं न जानते / यस्मात् सन्नता अवसादयोगित्वमिनता प्रभुता, एते द्वे विरुद्ध नैकत्र संभवतः / नहि प्रभवो नमन्ति / एतदेव व्यतिरेकेण द्रढयति-य एवेति / ये दीनास्त एव नतेन शिरसा. लक्षितास्तेन हेतुना दैन्यरसेनालमत्यन्तं चरन्ति व्यवहरन्तीति / अव्यपेतपदार्थं व्याचष्टे तदेतसर्वमिति // अथ चतुषु पादेषु व्यपेतमादियमकं यथा"काञ्चिप्रतोलीमनु कामिनी तां काञ्चिस्रवन्तीवनमातरिश्वा / काञ्चिप्रभृत्याभरणोज्झितानां कांचिल्लुनीते सुरतश्रमातिम् // 108 // - क्रमप्राप्तं व्यपेतमुदाहर्तव्यमित्याह-अथेति / काञ्चिनगरी तस्याः प्रतोली राजरथ्या तामनु लक्षीकृत्य / केन पानीयेनाञ्चनशीला या स्रवन्ती नदी तद्वनमातरिश्वा वायुः / काञ्चिप्रभृतीनि मेखलाप्रमुखानि / कांचित्सर्वाङ्गीणालसभावसमर्पिकामत एव मेखलाप्रभृतिभूषणत्यागः / अत्र प्रतिपादं काञ्चीकाञ्चीत्यादि नैरन्तयेणावर्तनेन व्यपेतम् , सान्तरत्वेन पुनरादिमध्ययमकमेव स्यादिति पादभेदेनैवास्य संभवः // तदेव मध्ययमकं यथा'मदनदारुण उस्थित उच्छिखो मधुमदारुणहूणमुखच्छविः / . तरुणिदारुण एष दिशः समं मम हृदारुणदास्रवणानलः // 109 // '